Book Title: Anusandhan 2012 03 SrNo 58
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 14
________________ अनुसन्धान-५८ सिद्धये' इति आरम्भसिद्धिग्रन्थे प्रोक्तत्वात्, मङ्गलग्रहस्तु सिद्धितया प्रसिद्धोऽर्थात् सिद्धियोगकारी । पार्श्वनाथः जननोत्सवेन निजजन्ममहोत्सवेन भुवः पृथिव्याः, लोकानामिति यावत्, प्रमोदं परमं महान्तं वा महानन्दं वितेने, मङ्गलस्तु ग्रहो भूमेः पुत्रोऽतः निजजनन्याः पृथिव्याः परमप्रमोददायक इति । सन्ति विद्यमानानि अष्टौ स्वस्तिकादीनि मङ्गलानि, आत्मोपकारीणि मङ्गलानि धर्मकृत्यानि, तेषामुपदेशकत्वात्, यस्य सः सन्मङ्गलः मङ्गलमूतिः मूर्तिमान् वा मङ्गलं पार्श्वनाथः मङ्गलं करोतु । मङ्गलस्तु सद्भिः शुभैः ग्रहैः सहितो यदा स्यात् तदा मङ्गलकृद् भवति, अथवा शुभः सन् मङ्गलः मङ्गलं करोति, अतः 'सन्मङ्गलः मङ्गलमातनोतु' इति । द्वावपि पार्श्वनाथ-मङ्गलग्रहौ एवं सिद्धियोगवन्तौ, भूप्रमोदजनको मङ्गलकारिणौ स्तः, किन्तु एको विरोधस्तयोः - यथा पार्श्वनाथो भगवान् 'अरागभृत्', मङ्गलस्तु 'रागभृत्' इति । तदपहारस्तु इत्थं पार्श्वनाथो विगतराग इति 'अरागभृत्, मङ्गलस्तु रागभृत् रक्तरङ्गभृत् रक्तवर्णः, अतः ‘यो रागभृत्' इति पदे विरोधाभासः ॥३॥ असद्ग्रहाऽऽसङ्गविमुक्तमूर्ति-र्दष्टया प्रयच्छत्यतुलं फलं यः । कलानिधिः प्रीतिकरश्च सौम्यो ददातु पार्श्वः सबुधः सुबुद्धिम् ॥४॥ टि :- पार्श्वनाथो भगवान्, असद्ग्रहासङ्गैः कदाग्रहग्रहिलतया, कदाग्रहै: आसङ्गेन आसक्त्या वा विमुक्तदेहः, बुधस्तु ग्रहः असद्ग्रहौ यौ राहुकेतू, ताभ्यां विमुक्तः अदृष्टो वा, स्वदृष्ट्या वा अतुलं फलं यच्छति, पार्श्वनाथो भगवान् स्वदृष्ट्या सकरुणया, स्याद्वादचक्षुषा वा अतुलं निर्वाणरूपं फलं यच्छति । पार्श्वनाथः परमात्मा सौम्यः प्रशान्तः वर्तते प्रशमपीयूषपूर्णः इति, बुधस्तु 'सोमो पितापि देवता अस्य "कसोमाट् ट्यण् (है.श. ६/२/१०७) अभि० चिन्ता. स्वो. वृत्ति श्लो. ११७) इति व्युत्पत्तेः सौम्यः सोमसुतः, चन्द्रपुत्र इति प्रसिद्धः । पार्श्वनाथः ज्ञानकलानां निधिः, सर्वेषां च प्रीतिकरः, सबुधः बुधैर्शानिभिः सहितो वर्तते, तथा सः बुधः ग्रहः अपि 'कलानिधिप्रीतिकरः' इति पदे वाच्ये कलानिधिभूतानां कलावतामित्यर्थः प्रीतिकरः इति षष्ठ्या विभक्त्या समासः, अत्र सविसर्ग 'कलानिधि' पदं, किन्तु 'श्लेषादिषु चित्रकाव्येषु विसर्गादीनि चित्रभङ्गाय न भवन्ति, यत उक्तं - वाग्भटालङ्कारे -

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 175