Book Title: Anusandhan 2012 03 SrNo 58
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 13
________________ फेब्रुआरी - २०१२ छायाभिधया भार्यया सहितः वर्तते 'छाया आदित्यपत्नी (हे.ना. १२० स्वो. वृत्ति) । धाम प्रतापः किरणानि वा, पार्श्वनाथः प्रतापस्य प्रभावस्य निधिः - महिमामण्डितः इति, सूर्यस्तु धाम्नां किरणानां निधिः । भद्रं कल्याणं भद्रा सूर्यपुत्रिका वा, भद्रेण सहितः पार्श्वनाथः, सूर्यस्तु भद्रया सहितः सभद्रः । अलीकस्य बन्धुः अलीकबन्धुः, न अलीकबन्धुः इति नाऽलीकबन्धुः - पार्श्वनाथः सत्यपक्षपातव्रतः आप्तः वीतरागत्वात् । सूर्यस्तु नालीकस्य कमलस्य बन्धुरिव इति कमलमित्रम् । जडिमा अज्ञानं शैत्यं वा, पार्श्वनाथः अज्ञानापहारी, सूर्योऽपि शैत्यविनाशकः । एवं द्वौ - (१) जगते ज्ञानदातृत्वात् पार्श्वनाथः चक्षुरिव, तथा जगतः पदार्थसार्थदर्शकत्वात् जगन्नेत्रः सूर्यः - एवं द्वौ अपि पार्श्वनाथः सूर्यश्च जीयात् ॥१॥ गोभिर्जनानां विसृतप्रमोदं सम्पादयन् भाऽऽश्रयतया(?ता) प्रतीतः । आनन्दकृत् कौशिकमानसानां पार्श्वस्तमस्तस्यतु वः कलावान् ॥२॥ टि :- गोभिः पञ्चज्ञानैः पार्श्वनाथः, चन्द्रमास्तु गोभिः किरणगणैः जनानां प्रमोदं सम्पादयति, पार्श्वनाथः चिदानन्दसम्पादयिता, चन्द्रमास्तु ज्योत्स्नया जनालादकारी । भं ज्ञानं, भान्ति सर्वे पदार्था येन तद् भं, तस्य ज्ञानस्य, आश्रयता शरण्यत्वं, आश्रयः पार्श्वनाथः ज्ञानाश्रयतया प्रतीतः, चन्द्रस्तु भानि नक्षत्राणि, तेषामाश्रय इति प्रतीतः, चन्द्रस्य नक्षत्रगामित्वेन प्रसिद्धेः । कौशिकः इन्द्र उलूकश्च, पार्श्वप्रभुः कौशिकानां सौधर्मादिचतुःषष्टिसुरेन्द्राणां मानसानां मनसां आनन्दकृत्, चन्द्रस्तु रात्रौ उदयति, रात्रौ च घूकाः पश्यन्ति; अतो निशाकर उलूकानामानन्ददाता । कलावान् कलाधरश्चन्द्रमाः षोडशकलाभिः सहितः, पार्श्वनाथस्तु कलाभिः ज्ञानकलाभिः, सकलाभिर्वा कलाभिः सहितः वर्तते, अतः पार्श्वनाथोऽपि कलावान् । एवं तादृशौ पार्श्वनाथः निशानाथश्च तमः अज्ञानं अन्धकारं च । तस्यतु नाशयतु वो युष्माकमिति ॥२॥ यो रागभृत् सिद्धितया प्रसिद्धोऽष्टम्यां वितेने जननोत्सवेन । भुवः प्रमोदं परमं स पावः, सन्मङ्गलो मङ्गलमातनोतु ॥३॥ टि :- पार्श्वनाथो भगवान् श्रावणशुक्लाष्टम्यां तिथौ निर्वाणमाप्तः - अत उच्यते 'अष्टम्यां सिद्धितया प्रसिद्धः' सिद्धिप्राप्तः इत्यर्थः, अष्टम्यां तिथौ मङ्गलवासरः सिद्धितया सिद्धियोग इति प्रसिद्धिः । 'भौमे... जया षष्ठी च

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 175