Book Title: Anusandhan 2007 01 SrNo 38
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 32
________________ जान्युआरी-2007 तावत् तृष्णाकुलितमतयः पापतापोपगूढा दुःखीयन्ते नवनवभव [ ] ग्रीष्मकाले कराले ॥ यावल्लोका घनमिव भवच्छासनं नो लभन्ते बोधागाधं सुपदपदवीनीरपूराभिरामम् ॥९॥ पीयूषाभं तव सुवचनं वर्यमाधुर्ययुक्तं स्वादं स्वादं विपुलहृदयक्षीरसिन्धोः समुत्थम् ॥ क्षारं नीरं कुसमयमयं कामयन्ते न भव्या जीवा हिंसा विरललहरीसङ्गमागाहदेहम् ॥ १० ॥ निः पुण्यानां न सुलभमिह श्रीमदानन्दहेतुं विज्ञैर्धन्यैस्तव जिनपते ! शास्त्ररूपं निधानम् ॥ चित्ताऽऽवासे लसदचलना निर्जिताऽमर्त्यभूभृच् चूलावेलं गुरुगममणीसङ्कलं दूरपारम् ॥११॥ अव्याबाधारस्सपदि विबुधास्सच्चिदानन्दलीनाः पुण्यापीना अजरममरं संश्रयं संश्रयन्ते ॥ यस्मात् पीत्वाऽसमशमसुधां तं जिनेन्द्र ! त्वदीयं सारं वीरगमजलनिधि सादरं साधु सेवे ॥१२॥ ये दुर्गाश्चोपसर्गा भवति कुमतिना सङ्गमे वा हतास्ते तस्यापत् सङ्गमायाऽजनिषत तदनु ध्यानसन्धानहृष्टैः ॥ दैवैर्दिव्या समोदं तव शिरसि तदा पुष्पवृष्टिर्विचक्रे आमूलालोलधूलीबहलपरिमलालीढलोलालिमाला ||१३|| शान्तं कान्तं नितान्तं निरुपमसुषमालाभवन्तं भवन्तं दृष्ट्वा लीना स्वयं सा जिनवर ! कमला चञ्चलापि स्वभावात् । विन्यस्ता शौरिणा या विधिसविधगता संस्थिता षट्पदाली 27 झङ्कारारावसाराऽमलदलकमलाऽऽगारभूमीनिवासे ||१४|| केचिद् गायन्ति देवाः प्रमदभरभृतो नाथ ! नृत्यन्ति केचित् नाते जाते सुमेरौ त्वयि जनिसमये रत्नसिंहासनस्थे ॥ रम्यक्षौमावृताङ्गे मृदुतरचरणे भासुरस्फारमौलिच्छायासम्भारसारे वरकमलकरे तारहाराभिरामे ॥ १५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78