Book Title: Anusandhan 2007 01 SrNo 38
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
28
अनुसन्धान-३८
सिंहाङ्कः सप्तहस्तप्रमिततनुरयं सम्पदः सर्वभव्याः
देया देया यदीयाननकमलभवा द्वादशाङ्गीमयाङ्गी ॥ दक्षो मोक्षोपयोगी वदति भगवतीं भारती नित्यमेवं
वाणीसन्दोहदेहे भवविरहवरं देहि मे देवि ! सारम् ॥१६॥ एवं देवाधिदेवः सदतिशयचयैः सर्वतः शोभमानः
काव्यैः 'संसारदावा' स्तुतिपदकलितैः कोविदैर्वर्ण्यमानः ॥ सद्ध्येयस्त्रैशलेयः स भवतु भविनां भूतये वर्धमानः
ज्ञानाम्भःसागराभः सकलसुखकरः श्रीजिनो वर्धमानः ॥१७|| ॥ इति महावीरस्तवनं पं. दानसारगणिना लिखितं सम्वत् १५६३ फाल्गुन शुदि १॥
श्रीज्ञानसागरसूरिविनिर्मितं 'आनन्दानम्र'.... पादपूर्तिरूपं श्रीशान्तिजिनस्तवनम् ।
[स्त्रग्धरावृत्तम्] चञ्चच्चामीकराभप्रवरवरतनुद्योतिरुद्योतिताशः श्रीशान्तिः शान्तिदाता स भवतु भविनां भाविनां तीर्थनाथः । यत्पादौ सप्रसादौ जगति नतवतामुल्लसन्ति[?]प्रभुता(प्रभुत्व)मानन्दानम्रकम्रत्रिदशपतिशिरःस्फारकोटीरकोटी ॥१॥ नौमि श्रीविश्वसेनक्षितिपतितनयं विश्वविश्वाधिपं तं शिश्राय श्रेयसी यं स्वयमपि सुकृतार्जिता चक्रिलक्ष्मीः ॥ भक्तिप्राग्भारभारप्रणमदविकलाक्षोणिभन्मौलिमोलिप्रेडमाणिक्यमालाशुचिरुचिलहरीधौतपादारविन्दम् ॥२॥ भोगान् रोगानिवाहो(हे)विषमिव विषयान् शस्त्रिकावद् वरस्त्रीः प्रौढं तत्याज राज्यं रज इव रभसा दूषणानीव भूषाः ॥ वन्दध्वं मुक्तिरामाविलसनमनसं तं जनास्त्यागिनं भो ! आद्यं तीर्थाधिराजं भुवनभवभृतां कर्ममर्मापहारम् ॥३॥ भीतो हर्यक्षभीतो वनदवदरतस्त्यक्तरङ्गः कुरङ्गो दीनो लीनो यदीये सुचरणशरणे निर्भयं प्राप सौख्यम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78