Book Title: Anusandhan 2007 01 SrNo 38
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
20
अनुसन्धान-३८
बाह्यान्तरारिबलमप्यखिलं विशालं
त्वद्ध्यानसन्निधिविधायिधियामधीश ! | भूरिप्रभाव ! भजते विशरारुभावं
सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥ त्वत्पादपङ्कजयुगप्रणिधानयोगा
नाभेय ! नाशमुपयाति महान्त्यघानि ॥ वातोद्धतः किल कियच्चिरमब्जपत्रे
मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥८॥ लक्ष्मीविलासवसति विदुरा विदन्तु
नामैव ते स्मरणतोऽस्य यदाप्यते श्रीः ॥ मिथ्येन्दुमण्डलमथातपवारणं वा
पद्माकरेषु जलजानि विकाशभाञ्जि ॥९॥ त्वांमष्टकर्ममलमुक्तमुपास्य नष्ट
कर्माष्टको हि भजतीति भजे भवन्तम् ॥ किं सर्वतोमुखसुखैषिभिरिष्यते स
। भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥ श्रोतुं सुराः समुपयन्ति गिरं गुरो ! ते
देवेश ! दिव्यमपि गीतरसं निरस्य ॥ स्वाधीनसौ धरससारसराः पिपासुः
क्षारं जलं जलनिधेरसितुं क इच्छेत् ॥११॥ उत्पाद्यते कथमधीश ! तवात्मतत्त्व
माग्दृशामनुपमानमतीन्द्रियं च ॥ आलोकितं क्वचिदपि श्रुतपूर्वकं वा
यत्ते समानमपरं नहि रूपमस्ति ॥१२॥ वागौचितीं व्रजति सा किमु कोविदानां
यत् ते त्वदीययशसामतिनिर्मलानाम् ॥ नेतस् ! तदप्युपमयन्ति शशाङ्कबिम्बं
यद् वासरे भवति पाण्डुपलाशकल्पम् ॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78