Book Title: Ang Sootra Gaathaadi Akaaraadi Kram Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 3
________________ आगम संबंधी साहित्य अंग-सूत्रादि-अकारादि [अ - कार ] मुनि दीपरत्नसागरेण पुन: संकलिता अंग-सूत्रादि-अकारादिः (आगम-संबंधी-साहित्य) प्रत N सूत्राक यहां देखीए अंगाकाराद्यनुक्रमादीनामुपोद्घातः । o n - - - दीप क्रमांक के लिए देखीए - विदितचरमेतद्विदुषां यदुत श्रीमत्या आगमोदयसमित्या ऋते छेदग्रन्थान् परिणामिकवाचंयमयोग्यान् प्रवज्यापर्यायपाप्यानां श्रीआचारांगादीनां तदितरेषां च श्रीआवश्यकादीनां पारगतगदितानामागमानां वर्तमानयुगातिरूढं स्पृहणीयं चोन्मुद्रणमादृतं, तत्र चैकादशांग्या अपि समारचितमुन्मुद्रणं, यद्यपि पाठकश्रावकसाधूनामेतावन्मुद्रणमात्रमेवोपयुक्ततरं, परमन्वेषकाणां मुनिपुङ्गवानां प्रमोदाय तत्सूत्राचकागदीनामुन्मुद्रणाय विहितोऽयमुद्यमः, तस्या एकादशांग्या मुद्रणावसरे नारम्भे सूत्राद्यकारादिचिकीर्षेति न तत्र गाथानामेकत्रिता संख्या, सूत्रसंख्यानेऽपि विहारादिना त्रुटिरभूद्, ततः सूत्रादिसंख्यादि निश्चित्य तदनुसारेण अकारादिक्रमो विषयानुक्रमश्च विहितौ स्तः, ततोऽवश्यमपेक्षणीया प्रेक्षाचक्षुष्कैः साऽऽदौ, विहितेऽपि प्रयत्ने नासंभावनाऽशुद्धीनामिति क्षाम्यन्तु क्षमाधनाः क्षन्तव्यं, विलोकयन्तु चेदमखिलमखिलकल्मषकापंकषकाः कारुण्यनिधयो मुनयो यथायथं तत्त्वावगमायेत्यर्थयन्ते । आनन्दसागराः २४६३ माघशुक्ला पूर्णिमा, जामनगर (नवानगर) - - - 'सवृत्तिक आगम - सुत्ताणि ~3~Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 148