Book Title: Ancient Jaina Hymns
Author(s): Charlotte Krause
Publisher: Oriental Institute

Previous | Next

Page 154
________________ ANCIENT JAINA HYMNS (५) श्री-तीर्थमाला-चैत्यवंदनम् श्रीशत्रुञ्जयरैवतादिशिखरे द्वीपे भृगोः पत्तने सिंहद्वीपधनेरमङ्गलपुरे चाज्जाहरे श्रीपुरे । कोडीनारकमन्त्रिदाहडपुरे श्रीमण्डपे चार्बुदे जीरापल्लिफलर्द्धिपारकनगे शैरीसशङखेश्वरे ॥१॥ चम्पानेरकधर्मचक्रमथुरायोध्याप्रतिष्ठानके वन्दे स्वर्णगिरौ तथा सुरगिरौ श्रीदेवकीपत्तने । हस्तोडीपुरपाडलादशपुरे चारूपपञ्चासरे वन्दे श्री करणावतीशिवपुरे नागद्रहे नाणके ॥२॥ मेरौ कुण्डलमानुषे च रुचके वैताब्यनन्दीश्वरे वन्देऽष्टापदगुण्डरे गजपदे सम्मेतशैलाभिधे । विन्ध्यस्थम्भनशीट्ठमीट्ठनगरे राजद्रहे श्रीनगे कुन्तीपल्लविहारतारणगढे सोपारकारासणे ॥३॥ द्वारावत्यपरे गढे मढगिरौ श्रीजीर्णवप्रे तथा __ थारापद्रपुरे च वाविहपुरे कासद्हे चेडरे । श्रीतेजल्लविहारनिंबतटके चंद्रे च दविते वन्दे सत्यपुरे च बाहडपुरे राडव्हे वायडे ॥४॥ वन्दे नन्दसमे समीधवलके मर्जादमुंडस्थले मोढेरे दधिपद्रकर्करपुरे ग्रामादिचैत्यालये । ज्योतिय॑न्तरकल्पवासिनिलये भौमेषु वा भूतले ते सर्वेऽपि हि शाश्वतेतरजिनाः कुर्वन्तु वो मंगलम् ॥५॥ 118 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184