Book Title: Anagar Dharmamrutam Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala Samiti View full book textPage 9
________________ अनगारधर्मामृते अविद्याभिदुरं ज्योतिः परं ज्ञानमयं महत् । तत्प्रष्टव्यं तदेष्टव्यं तद् द्रष्टव्यं मुमुक्षुभिः ॥ इति च । सैषा ज्ञानाराधना। संयमनं पूर्व पश्चात्किंचिदिति संयम्य, तत्तत्स्वस्व विषयादः स्पर्शनादीन्द्रियैः सह वर्तमानं मनोऽन्तःकरणं निवर्येत्यर्थः । यथास्वावरणवीर्यान्तरायक्षयोपशमसन्निधाने सत्यक्ष्णोति व्याप्नोति जानाति यथास्वं स्पर्शादिविषयानेभिरामेत्यक्षाणि लब्ध्युपयोगरूपाणि स्पर्शनादिभावेन्द्रियाणि । नो इन्द्रियावरणवीर्यान्तरायक्षयोपशमसन्निधाने सति द्रव्यमनसा कृतानुग्रह आत्मा मनुते जानाति मूर्तममूर्त च वस्तु गुणदोषविचारसरणादिप्रणिधानरूपेण विकल्पयत्यनेनेति मनो गुणदोषविचारसरणादिप्रणिधानलक्षणं भावमन इत्यर्थः । भवति चात्र पद्यम् गुणदोषविचारस्मरणादिप्रणिधानमात्मनो भावमनः। तदभिमुखस्यास्यैवानुग्राही पुद्गलोच्चयो द्रव्यमनः ॥ सैषा तपआराधना, इन्द्रियमनसोर्नियमानुष्ठानं तप इत्यभिधानात् । सोयं व्यवहारमोक्षमार्गः। ध्यात्वा एकाग्रचिन्तानिरोधलक्षणध्यानगोचरीकृत्ये । “अर्थवशाद्विभक्तिविपरिणाम" इति अमले आत्मन्यमुह्यत्यऽरज्यत्यद्विषति चेत्यर्थः । शं वैतृष्ण्यं सान्द्रानन्दशुद्धस्वात्मानुभूतियोगादत्यन्ततृप्तत्वादतिशयेनैषामस्तीति शमिनो ध्येयेपि वितृष्णाः सन्त इत्यर्थः । तथा चोक्तम् किमत्र बहुनोक्तेन ज्ञात्वा श्रद्धाय तत्त्वतः। ध्येयं समस्तमप्येतन्माध्यस्थ्यं तत्र बिभ्रता ॥ इति । स्वयं स्वसंवेदनरूपेणात्मना । अमलमित्यत्रापि पूर्ववद्याख्येयम् । स्वममलं द्रव्यभावकर्मनिर्मुक्तं स्वपरज्ञप्तिरूपमात्मानं विपरीताभिनिवेशसंशयविपर्ययानध्यवसायविविक्तं परमौदासीन्यरूपं वा । निरवधिशुद्धज्ञानानन्दात्मकमिति यावत् । सोयं ध्यात्वेत्यादिना निश्चयमोक्षमार्गः । उक्तं च रयणत्तयं ण वदृइ अप्पाण मुइंतु अण्णदवियम्हि । १ साक्षमिति मूलोक्तं पदं विग्रहेणात्र दर्शितम् । २ इतः परं मूलोक्तं स्वे इति पदमावश्यकम् । कुतः ? तद्विशेषणस्य 'अमले' इति पदस्याग्रे विद्यमानत्वात् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 698