Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 15
________________ अनगारधर्मामृते नादेर्विनिवर्त्य सम्यग्दर्शनादौ स्थापयन्तीत्येतान् धर्माचार्यान् । किंविशिष्टा. न् ? सूत्रग्रथः । सूत्रमर्हद्भाषितमर्थसमयं ग्रथन्ति अङ्गपूर्वगतरूपेण रचयन्तीत्येतान् । तथाऽध्येम्यहम् । कान् ? अभिन्नदशपूर्विणः । अभिन्ना विद्यानुवादपाठे स्वयमायातद्वादशशतविद्याभिरमच्यावितचारित्राः, ते च ते दशपूर्वाण्युत्पादपूर्वादिविद्यानुवादान्तान्येषां सन्तीति दशपूर्विणश्च, तान् । किंविशिष्टान् ? सूत्रप्रथः । तथाध्येम्यहम् । कान् ? प्रत्येकबुद्धान् । एक केवलं परोपदेशनिरपेक्षं श्रुतज्ञानावरणक्षयोपशमविशेषं प्रतीत्य बुद्धान् संप्रा. तज्ञानातिशयान् । किंविशिष्टान् ? सूत्रग्रथः। तथाध्येम्यहम्। कान् ? श्रुतकेवलिनः । समस्तश्रुतधारिणः । श्रुतेन प्रागुक्तलक्षणेन ज्ञानविशेषेण केवलिन इव सर्वज्ञकल्पाः श्रुतकेवलिनः । किंविशिष्टान् ? सूत्रग्रथः । अत्र सूत्रग्रथकत्वं गणधरादित्वं चेत्युभयं विधेयं, तद्गुणार्थितया ध्यातस्तेषां ध्येयत्वनिश्चयेन ध्याने प्रवृत्त्युपपत्तेः । अधुना जिनागभव्याख्यानारातीयसूरीनभिष्टौति ग्रन्थार्थतो गुरुपरम्परया यथाव, च्छ्रुत्वावधार्य भवभीरुतया विनेयान् । ये ग्राहयन्त्युभयनीतिबलेन सूत्रं, रत्नत्रयप्रणयिनो गणिनः स्तुमस्तान् ॥४॥ स्तुमो वन्दामहे वयम् । कान् ? तान् गणिनः श्रीकुन्दकुन्दाचार्यप्रभृतीन् धर्माचार्यान् । किंविशिष्टान् ? रत्नत्रयप्रणयिनः “जातो जातो यदुत्कृष्टं तत्तद्नमिहोच्यते” इति वचनादभ्युदयनिःश्रेयससंपादकत्वेन जीवपरिणामेषु मध्ये प्रकृष्टत्वागनानि सम्यग्दर्शनज्ञानचारित्राणि त्रयोवयवा यस्य तत् त्रयम् । रत्नानां त्रयं रत्नत्रयम् । रत्नत्रयेण सह प्रणयः परिचयः कथंचित्तादाम्यलक्षणः संबन्ध एषामस्तीति रत्नत्रयप्रणयिनः । सम्यग्दर्शनादित्रयपरिणतानित्यर्थः । ये किम् ? ये ग्राहयन्ति निश्वाययन्ति प्रतीतिमानयन्ति । कान् ? विनेयान् । विनीयन्ते व्युत्पाद्यन्ते संशयादिव्यवच्छेदेन शास्त्रं ग्राहयन्त इति विनेयाः शिष्यास्तान् । किं ग्राहयन्ति ? सूत्रम् । सूते सूचयति सूत्रयति वानिति सूत्रं Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 698