Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
प्रथमोऽध्यायः।
अर्हन अरिहननादजोरहस्यहरणाच्च परिप्राप्तानन्तचतुष्टयस्वरूपः सन् इन्द्रादिनिर्मितामतिशयवती पूजामहतीति निरुक्तिविषयः सः । यच्छब्देन श्रेय इत्यादि विशेषणविशिष्टत्वेन निर्दिष्टस्तच्छब्देन परामृश्यमानो नोऽस्मान् प्राणार्थिनोऽव्याद् रक्ष्यात् । अभ्युदयनिःश्रेयसभ्रंशनोपायलक्षणादपायाद् दूरीक्रियादित्यर्थः । “आशिषि लिङ्लोटौ" इति लिङ्।
अथ समुदायार्थप्रतिपत्त्यर्थ पदानि संबध्यन्ते । अव्यात् । कोसौ ? सोऽर्हन् । कान् ? नः । यः किं करोति? यः शास्ति। कान् ? उचितान् । कम् ? शिवपथम् । कैः ? वाक्यैः । किंविशिष्टैः ? इत्यारोहत्परानुग्रहरसविलसद्भावनोपात्तपुण्यप्रकान्तैरेव । इतिशब्देन स्वरूपार्थेन विवक्षितमर्थविशेष दर्शयितुं श्रेय इत्याद्याह । उद्धरेयमुद्धर्तुं समर्थो भवेयमहमिति मनोरथो मे वर्तते इत्यर्थः। कान् ? इमान् वराकान् । किं कुर्वाणान् ? चङ्क्रम्यमाणान् । कथम् ? यथा भवत्यतिचकितम् । क्व ? इह भवगहने । किंविशिष्टे ? जाज्वलदुःखदावस्कन्धे । किंविशिष्टानू सतः ? श्रेयोमार्गानभिज्ञान् । अयमर्थः । यतोमी श्रेयोमार्ग यथावन्न जानन्त्यतो दुःखादत्यन्तं बिभ्यतोपि कुटिलं क्रमन्ति । दुःखविमोक्षबुद्ध्या दुःखोपायानेव सेवन्ते । अतश्च मेऽनुकम्पाविषया भवन्ति । इत्यहमेषां दुःखविमोक्षमार्गप्रदर्शनसमर्थो भवेयमिति प्रार्थये । दृश्यते च लोकेपि, परोपकारपरः पथिकानू दुर्दैववशास्तरघोरारण्ये ज्वलज्वलनज्वालाकलापदह्यमानवृक्षस्वापदादिसंघाते पतितान् श्रेयोमार्गाऽकुशलान् तन्निस्सरणपथमजानतस्तन्निस्सरणबुद्ध्या दवानलाभिमुखमेव सातंकं गच्छतो दृष्ट्वा दयाहृदयतया सम्यग्निःसरणमार्गमुपदेष्टुकाम इत्युक्तिलेशोत्र सहृदयैरवधार्यः। ..
इदानीमहद्भट्टारकोपदिष्टार्थसमयग्रन्थकत्वेन सकलजगदुपकारकान् गणधरदेवादीन् मनसि निधत्ते
सूत्रग्रथो गणधरानभिन्नदशपूर्विणः ।
प्रत्येकबुद्धानध्येमि श्रुतकेवलिनस्तथा ॥३॥ सूत्रग्रथ इति चतुर्भिस्तथेति चोत्तरैस्त्रिभिरभिसंबध्यते । अध्येमि ध्यायामि । प्रमोदमाने हृदयारविन्दे ऐकाग्येण चिन्तयाम्यहमित्यर्थः । कान् ? गणधरान् गणान् द्वादश यत्यादीन् जिनेन्द्रसभ्यान धारयन्ति मिथ्यादर्श
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 698