Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 17
________________ अनगारधर्मामृते अत्र नानाश्रोतॄणां मुख्यवृत्या धर्मस्वरूपाधिगमसंशयव्यपगमविपर्यासनिरासश्रद्धानातिशयाचरणतद्विशेषलक्षणानि व्याख्यातुश्चाशुभकर्मसंवरणनिजरणपुण्यपुजार्जनकल्याणपरम्पराप्राप्तिरूपाणि फलानि देशनायाः क्रमेण प्रकाशितानि प्रतिपत्तव्यानि । नन्दतात् । समृद्धिं गच्छतु सर्वाङ्गसमग्रा भूयादित्यर्थः । "तुह्योस्तात वाशिषि" इति रूपम् । कासौ सा देशना। दिश्यते परस्मै प्रतिपाद्यते इति देशना उपदेश्यमानो धर्मो धर्मोपदेशनं वा देशना । रूढ्या धर्मोपदेशः। यदनुग्रहात्किं भवतीत्याह । विदन्ति स्वरूपतोयमेवेत्याकारविशेषरूपतश्चेदृश एवेति निश्चिन्वन्ति । के ते? केपि । केचितीव्रज्ञानावरणोदयविवर्त्तवर्तिनो भव्याः । कम् ? धर्मम् । ध्रियन्ते तिष्ठन्ति नरकादिभ्यो गतिभ्यो निवृत्ता जीवास्तेन सुगताविति धरत्यात्मानं सुगताविति वा धर्मस्तं, रत्नत्रयलक्षणं मोहक्षोभविवर्जितात्मपरिणामरूपं वा वस्तुयाथात्म्यस्वभावं वा उत्तमक्षमादिदशलाक्षणिकं वा । कस्मात् ? यदनुग्रहात् । यस्या देशनाया अनुग्रहो यथाक्षयोपशममतिशयाधानलक्षण उपकारो यदनुग्रहस्तस्माद्धेतोः तमाश्रित्य । किंविशिष्टाः सन्तः ? श्रोतारः श्रवणेन्द्रियद्वारेण देशनामुपलभमानाः । कथम् ? अहरहो दिने दिने । अव्ययमिदम् । तथा धुनते निराकुर्वन्ति । के ते? अन्ये मन्दज्ञानावरणोदयविवर्तवर्तिनो भव्याः। कम् ? संदेहम् । अयं भवत्यन्यो वेत्थंभूतो भवत्यन्यथाभूतो वेति चलितप्रतीतिरूपं संशयम् । क्व ? तत्र तस्मिन्यथोक्तलक्षणे धर्मे। कस्मात् , यदनुग्रहात्। किंविशिष्टाः सन्तः ? अहरहः श्रोतारः। तथा अपयन्ति अपगच्छन्ति प्रच्यवन्ते । के ते ? अपरे मध्यमज्ञानावरणोदयविवर्तवर्तिनो भव्याः। कुतः सकाशात् ? तद्धान्तेः । तस्य धर्मस्य भ्रान्तिर्यथोक्तस्वरूपादन्यथात्वेन प्रतिपत्तिस्तद्धान्तिस्तस्याः । यथावद्धर्मस्य ज्ञातारो भवन्तीत्यर्थः । कस्मात् ? यदनुग्रहात् । किंविशिष्टाः सन्तः ? अहरहः श्रोतारः। एते त्रयोप्यव्युत्पन्नसम्यक्त्वा भद्रमिथ्यादृष्टयो वा, क्रूरमिथ्यादृष्टीनां देशनायामनधिकारात् । तथा उशन्ति कामयन्ते श्रद्दधते इदमित्थमेव भवतीति प्रतीयन्तीत्यर्थः। के ते ? अन्ये सदृष्टयो भव्याः । कम् ? तं प्रागुक्तलक्षणं धर्मम् । कथम् ? सुष्छु सुतराम् । अन्तश्चेतस्यनुबोधरूपेण प्रतिपद्यन्ते इत्यर्थः । कस्मात् ? यदनुग्रहात् । किंविशिष्टाः सन्तः ? अहरहः श्रोतारः । तथानुतिष्ठन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 698