________________
अनगारधर्मामृते
अत्र नानाश्रोतॄणां मुख्यवृत्या धर्मस्वरूपाधिगमसंशयव्यपगमविपर्यासनिरासश्रद्धानातिशयाचरणतद्विशेषलक्षणानि व्याख्यातुश्चाशुभकर्मसंवरणनिजरणपुण्यपुजार्जनकल्याणपरम्पराप्राप्तिरूपाणि फलानि देशनायाः क्रमेण प्रकाशितानि प्रतिपत्तव्यानि । नन्दतात् । समृद्धिं गच्छतु सर्वाङ्गसमग्रा भूयादित्यर्थः । "तुह्योस्तात वाशिषि" इति रूपम् । कासौ सा देशना। दिश्यते परस्मै प्रतिपाद्यते इति देशना उपदेश्यमानो धर्मो धर्मोपदेशनं वा देशना । रूढ्या धर्मोपदेशः। यदनुग्रहात्किं भवतीत्याह । विदन्ति स्वरूपतोयमेवेत्याकारविशेषरूपतश्चेदृश एवेति निश्चिन्वन्ति । के ते? केपि । केचितीव्रज्ञानावरणोदयविवर्त्तवर्तिनो भव्याः । कम् ? धर्मम् । ध्रियन्ते तिष्ठन्ति नरकादिभ्यो गतिभ्यो निवृत्ता जीवास्तेन सुगताविति धरत्यात्मानं सुगताविति वा धर्मस्तं, रत्नत्रयलक्षणं मोहक्षोभविवर्जितात्मपरिणामरूपं वा वस्तुयाथात्म्यस्वभावं वा उत्तमक्षमादिदशलाक्षणिकं वा । कस्मात् ? यदनुग्रहात् । यस्या देशनाया अनुग्रहो यथाक्षयोपशममतिशयाधानलक्षण उपकारो यदनुग्रहस्तस्माद्धेतोः तमाश्रित्य । किंविशिष्टाः सन्तः ? श्रोतारः श्रवणेन्द्रियद्वारेण देशनामुपलभमानाः । कथम् ? अहरहो दिने दिने । अव्ययमिदम् । तथा धुनते निराकुर्वन्ति । के ते? अन्ये मन्दज्ञानावरणोदयविवर्तवर्तिनो भव्याः। कम् ? संदेहम् । अयं भवत्यन्यो वेत्थंभूतो भवत्यन्यथाभूतो वेति चलितप्रतीतिरूपं संशयम् । क्व ? तत्र तस्मिन्यथोक्तलक्षणे धर्मे। कस्मात् , यदनुग्रहात्। किंविशिष्टाः सन्तः ? अहरहः श्रोतारः। तथा अपयन्ति अपगच्छन्ति प्रच्यवन्ते । के ते ? अपरे मध्यमज्ञानावरणोदयविवर्तवर्तिनो भव्याः। कुतः सकाशात् ? तद्धान्तेः । तस्य धर्मस्य भ्रान्तिर्यथोक्तस्वरूपादन्यथात्वेन प्रतिपत्तिस्तद्धान्तिस्तस्याः । यथावद्धर्मस्य ज्ञातारो भवन्तीत्यर्थः । कस्मात् ? यदनुग्रहात् । किंविशिष्टाः सन्तः ? अहरहः श्रोतारः। एते त्रयोप्यव्युत्पन्नसम्यक्त्वा भद्रमिथ्यादृष्टयो वा, क्रूरमिथ्यादृष्टीनां देशनायामनधिकारात् ।
तथा उशन्ति कामयन्ते श्रद्दधते इदमित्थमेव भवतीति प्रतीयन्तीत्यर्थः। के ते ? अन्ये सदृष्टयो भव्याः । कम् ? तं प्रागुक्तलक्षणं धर्मम् । कथम् ? सुष्छु सुतराम् । अन्तश्चेतस्यनुबोधरूपेण प्रतिपद्यन्ते इत्यर्थः । कस्मात् ? यदनुग्रहात् । किंविशिष्टाः सन्तः ? अहरहः श्रोतारः । तथानुतिष्ठन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org