________________
प्रथमोऽध्यायः।
सत्यं संयुक्तिकं च प्रवचनम् । तच्चानेदानी गणधरादिरचितमंशतोगप्रविष्टमारातीयाचार्यरचितं च कालिकोत्कालिकादिकमङ्गबाह्यं गृह्यते । केन ? उभयनीतिबलेन उभावागमभाषया द्रव्यार्थिकपर्यायार्थिको अध्यात्मभाषया च व्यवहारनिश्चयाववयवौ यस्याः सा उभयी श्रुताख्यप्रमाणपरिच्छिन्नार्थंकदेशो नीयते परिच्छिद्यतेऽनयेति नीतिर्नयः । श्रुतज्ञानिनः स्वार्थैकदेशव्यवसाय इत्यर्थः। उभयी चासौं नीतिश्चोभयनीतिः । तस्या बलं सामर्थ्य सर्वथैकान्तवादिभिरवाध्यमानत्वमुभयनीतिबलं, तेन । किंविशिष्टान् विनेयान् ? भवभीरुतया विशिष्टान् । भवाद्विभ्यति तच्छीला भवभीरवः तेषां भावस्तत्ता, तया । "येनाङ्गिविकारेत्थभावौ” इत्यनेन विशेषणे तृतीया। संसारभीरून् संविग्नानित्यर्थः। किं कृत्वा? श्रुत्वा आक
ावधार्य च अशेषविशेषनिष्टतया स्वयं धारयिस्वा कालान्तराविस्मरणयोग्यतां नीत्वेत्यर्थः । किं तत् ? सूत्रम् । किंवत् ? यथावत् सम्यक् । कया हेतुभूतया ? गुरुपरम्परया। गुरूणां तीर्थकरगणधरादीनां परम्परा शिष्यप्रतिशिष्यप्रबन्धो गुरुपरम्परा, तया । गुरुपर्वक्रमेणेत्यर्थः । कुतस्तया यथावच्छ्रुतमवधारितं च तैः सूत्रमित्यत्राह । ग्रन्थार्थत इति । अथ्यते सूत्रप्रकरणाह्निकादिरूपेण रच्यते इति ग्रन्थो विवक्षितार्थप्रतिपादनसमर्थो वचनसंदर्भः । अर्थ्यते निश्चीयते इत्यर्थोभिधेयः । ग्रन्थश्वार्थश्च ग्रन्थाौँ च ग्रन्था . थास्तेभ्यः । तानाश्रित्येत्यर्थः। कदाचिद्रन्थमाश्रित्य कदाचिदर्थ कदाचिइन्थार्थावित्यर्थः । कया ? भवभीरुतया श्रवणावधारणक्रिययोः करणत्वेपि संदंशकन्यायेन संबध्यते ।
एवं भगवत्सिद्धस्वरूपतत्प्राप्युपायप्ररूपणप्रवणपरमागमोपदेशकमथकव्याख्यायकभावेनाधिगतगरिष्टगरीयोगुरुव्यपदेशानहट्टारकगणधरादिचतुष्टयैदंयुगीनधर्माचार्यवर्यानुपचर्य सांप्रतं वक्तश्रोतॄणामनुग्राहकं तदनुशिष्टध. र्मोपदेशसाशासितुमिदमादिशति
धर्म केपि विदन्ति तत्र धुनते संदेहमन्येऽपरे, तद्धान्तेरपयन्ति सुष्टु तमुशन्त्यन्येऽनुतिष्ठन्ति वा । श्रोतारो यदनुग्रहादहरहर्वक्ता तु रुन्धनघं, विष्वग्निर्जरयंश्च नन्दति शुभैः सा नन्दताद्देशना ॥५॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org