________________
अनगारधर्मामृते
नादेर्विनिवर्त्य सम्यग्दर्शनादौ स्थापयन्तीत्येतान् धर्माचार्यान् । किंविशिष्टा. न् ? सूत्रग्रथः । सूत्रमर्हद्भाषितमर्थसमयं ग्रथन्ति अङ्गपूर्वगतरूपेण रचयन्तीत्येतान् । तथाऽध्येम्यहम् । कान् ? अभिन्नदशपूर्विणः । अभिन्ना विद्यानुवादपाठे स्वयमायातद्वादशशतविद्याभिरमच्यावितचारित्राः, ते च ते दशपूर्वाण्युत्पादपूर्वादिविद्यानुवादान्तान्येषां सन्तीति दशपूर्विणश्च, तान् । किंविशिष्टान् ? सूत्रप्रथः । तथाध्येम्यहम् । कान् ? प्रत्येकबुद्धान् । एक केवलं परोपदेशनिरपेक्षं श्रुतज्ञानावरणक्षयोपशमविशेषं प्रतीत्य बुद्धान् संप्रा. तज्ञानातिशयान् । किंविशिष्टान् ? सूत्रग्रथः। तथाध्येम्यहम्। कान् ? श्रुतकेवलिनः । समस्तश्रुतधारिणः । श्रुतेन प्रागुक्तलक्षणेन ज्ञानविशेषेण केवलिन इव सर्वज्ञकल्पाः श्रुतकेवलिनः । किंविशिष्टान् ? सूत्रग्रथः । अत्र सूत्रग्रथकत्वं गणधरादित्वं चेत्युभयं विधेयं, तद्गुणार्थितया ध्यातस्तेषां ध्येयत्वनिश्चयेन ध्याने प्रवृत्त्युपपत्तेः । अधुना जिनागभव्याख्यानारातीयसूरीनभिष्टौति
ग्रन्थार्थतो गुरुपरम्परया यथाव, च्छ्रुत्वावधार्य भवभीरुतया विनेयान् । ये ग्राहयन्त्युभयनीतिबलेन सूत्रं,
रत्नत्रयप्रणयिनो गणिनः स्तुमस्तान् ॥४॥ स्तुमो वन्दामहे वयम् । कान् ? तान् गणिनः श्रीकुन्दकुन्दाचार्यप्रभृतीन् धर्माचार्यान् । किंविशिष्टान् ? रत्नत्रयप्रणयिनः “जातो जातो यदुत्कृष्टं तत्तद्नमिहोच्यते” इति वचनादभ्युदयनिःश्रेयससंपादकत्वेन जीवपरिणामेषु मध्ये प्रकृष्टत्वागनानि सम्यग्दर्शनज्ञानचारित्राणि त्रयोवयवा यस्य तत् त्रयम् । रत्नानां त्रयं रत्नत्रयम् । रत्नत्रयेण सह प्रणयः परिचयः कथंचित्तादाम्यलक्षणः संबन्ध एषामस्तीति रत्नत्रयप्रणयिनः । सम्यग्दर्शनादित्रयपरिणतानित्यर्थः । ये किम् ? ये ग्राहयन्ति निश्वाययन्ति प्रतीतिमानयन्ति । कान् ? विनेयान् । विनीयन्ते व्युत्पाद्यन्ते संशयादिव्यवच्छेदेन शास्त्रं ग्राहयन्त इति विनेयाः शिष्यास्तान् । किं ग्राहयन्ति ? सूत्रम् । सूते सूचयति सूत्रयति वानिति सूत्रं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org