________________
प्रथमोऽध्यायः।
१३
आचरन्ति । के ते ? अन्ये सदृष्टयः सुष्टु सदृष्टयो वा। वाशब्दः पक्षा. न्तरसूचने नान्ये इत्यत्रापि संबध्यते । कम् ? तं धर्मम् । कस्मात् ? यदनुग्रहात्। किंविशिष्टाः सन्तः ? अहरहः श्रोतारः। तथा वाशब्दात्प्रागेव धर्ममनुतिष्ठन्तो यदनुग्रहादहरहः श्रोतारः सन्तः सुष्टु तमनुतिष्ठन्तीति व्याख्येयम् ।
एवं श्रोतॄणां देशनाकृतमनुग्रहं प्ररूप्य वक्तुस्तं प्ररूपयन्नाह- वक्ता त्वित्यादि । तुर्विशेषे । नन्दति समृद्धो भवति । कोसौ ? वक्ता व्याख्याता । कैः ? शुभैः सद्वेधशुभायुर्नामगोत्रलक्षणैरपूर्वपुण्यैः पूर्वार्जितपुण्यपवित्रमकल्याणैश्व शुभपरिणामजन्यत्वात् । शुभं पुण्यं कल्याणम् । शुभमिति रूढमेव। कथं शुभैनन्दति? अहरहः। किं कुर्वन् ? रुन्धन प्रतिबन्धन् । निवारयन्नित्यर्थः । किं तत् ? अघं ज्ञानावरणादिकर्मरूपमागामि पापम् । कथम् ? विष्वक् समन्तात् । मनोवाक्कायव्यापारद्वारैरागामिपातकयोग्यपुद्गलास्तद्रूपेण परिणन्तुकामानिराकुर्वन्नित्यर्थः। न केवलं तत्तथा रुन्धन् , निर्जरयंश्चैकदेशेन क्षपयन् । किं तत् ? अघम् । अर्थात्पुरार्जितं पातकम् । अयमर्थो-देशनाया धर्मोपदेशरूपस्वाध्यायाख्यतपोविशेषत्वादशुभकर्मणां संवरसहभाचिन्यां निर्जरायां वर्तमानस्यापि वकुस्तद्गतप्रशस्तरागयोगात्प्रचुरपुण्यानामास्रवणं प्राक्तनपुण्यविपाकस्फारीभावान्नवनवकल्याणमालासमावेशश्च भवति ।
एवं भगवत्सिद्धादिगुणगणानुस्मरणलक्षणं मुख्यमङ्गलमभिधायेदानी प्रमाणगर्भमभिधेयव्यपदेशमुखप्रकाशितव्यपदेशं शास्त्रविशेष कर्तव्यतया प्रतिजानीते
अथ धर्मामृतं पद्यद्विसहरूया दिशाम्यहम् । निर्दुःखं सुखमिच्छन्तो भव्याः शृणुत धीधनाः ॥ ६॥ अथशब्दोत्र तावन्मङ्गलार्थः । उक्तं चसिद्धिर्बुद्धिर्जयो वृद्धी राज्यपुष्टिस्तथैव च ।
ओंकारश्चाथशब्दश्च नान्दीमङ्गलवाचिनः ॥ इति । १ 'व्याख्यातुरनुग्रहं प्ररूप'-एतावान्पाठो नास्ति मूलपुस्तके । .
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org