________________
अनगारधर्मामृते
अधिकारे वा । इतः शास्त्रं वाधिक्रियत इत्यर्थः । आनन्तर्ये वा । निबमुख्य मङ्गलकरणानन्तरमित्यर्थः । धर्मो व्याख्यातलक्षणः । धर्मोऽमृतमिवोपयोक्तृणामजरामर हेतुत्वात् । तदभिधेयमनेनेतीदं शास्त्रं धर्मामृतमिति व्यपदिश्यते । श्रूयन्ते चाभिधेयव्यपदेशेन शास्त्रं व्यपदिशन्तः पूर्वकवयो यथा, तत्त्वार्थवृत्तिर्यशोधरचरितं चेति । भट्टरुद्रटोपि तथैवाह - "काव्यालङ्कारोयं ग्रन्थः क्रियते यथायुक्ति" इति । परिमिताक्षरमात्रापिण्डः पादः । तन्निबद्धं वाङ्मयं वृत्तश्लोकार्यारूपं पथम् । द्वे सहस्रे समाहृते द्विसहस्री विंशतिशतानि । पद्यानां द्विसहस्री पद्यद्विसहस्री तथा पद्यद्विसहख्या करणभूतया । दिशाम्यहमित्यनेन देशनक्रियायां व्यापृतमात्मानं लक्षयति । दिशामि प्रतिपादयामि । कः ? कर्ता अहम् । किं तत् । धर्मामृतम् । कथा । पद्यद्विसहख्या । कथम् ? अथ अनन्तरम् । अथ श्रोतृनभिमुखीकर्तुमाह - निर्दुःखमित्यादि । हे भव्या अनन्तज्ञानाद्याविर्भावयोग्या जीवाः शृणुत आकर्णयत । के ते ? यूयम् । किं तत् ? प्रकृतत्वादुपदिश्यमानं धर्मामृतं नाम शास्त्रम् । किंविशिष्टाः सन्तः ? धीधनाः । धीः शुश्रूषा श्रवणाद्यष्टगुणसंपन्ना बुद्धिः । धीरेव धनं येषामत्यन्तस्पृहणीयत्वात्ते धीधनाः । इदमपि वा संबोधनत्वेन भव्या इत्यस्य विशेषणं कृत्वा हे भव्या, हे धीधना इति योज्यम् । किं कुर्वन्त इदं शास्त्रं यूयं शृणुतेत्याह - इच्छन्तोभिलषन्तः । किं तत् ? सुखं शर्म । किंविशिष्टम् ? निःदुखं दुःखान्निष्क्रा न्तमनाकुलत्वलक्षणं नैःश्रेयसं न सांसारिकम् । संसारे हि दुःखानुषक्तमेव सुखम् । तथा चोक्तम् —
"
सपरं बाधासहियं विच्छिण्णं बंधकारणं विसमं । जं इं दिएहि लद्धं तं सोक्खं दुक्खमेव तहा ॥ इति । अथवा दुःखानामभावो निर्दुःखं सुखं चेच्छन्त इति ग्राह्यं, दुःखाभावस्य सुखस्य च पुरुषैरर्थ्यमानत्वात् । सुखमित्यत्र चशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः । यथा, पृथिव्यापस्तेजो वायुरिति तच्चानीत्यत्र । एतेन धीधनत्वे निर्दःखसुखाभिलाषित्वे च सति भव्या एवैतच्छास्त्रश्रवणाधिकारिण इत्युक्तं प्रतिपतव्यम् । किंच
१४
“मङ्गलनिमित्तहेतुप्रमाणनामानि शास्त्रकर्तृश्च ।
व्याकृत्य षडपि पश्चाद्याचष्टां शास्त्रमाचार्यः ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org