________________
प्रथमोऽध्यायः ।
इति प्रसिद्ध्या मङ्गलादिषट्कमिह प्रदर्श्यते। तत्र (?)मं मलं पापं गालयति मङ्गं वा पुण्यं लात्यादत्ते इति मङ्गलमऽविनेन प्रारिप्सितक्रियासंसिद्ध्यर्थमिप्यते । तच्चेह मुख्यमर्थतो भगवत्सिद्धादिगुणगणप्रणिधानप्रणयनं पूर्वम. कारि । तेनाधर्मविशेषध्वंसस्य धर्मविशेषस्वीकारस्य च प्रारिप्सितशास्त्रसिद्धिनिमित्तस्योपपत्तेः । शब्दतश्चाथशब्दोच्चारणमनन्तरमेव कृतं, तस्यापि तदर्थत्वप्रसिद्धेः । तथा चोक्तम्
त्रैलोक्येशनमस्कारलक्षणं मङ्गलं मतम् । . विशिष्टभूतशब्दानां शास्त्रादावथवा स्मृतिः ॥ इति ।
संपूर्णकलशदध्यक्षतसितकुसुमोपहारादिकं तु मुख्यमङ्गलप्राप्त्युपायत्वादमुख्यमङ्गलमित्युच्यते । तदपि चात्य शास्त्रस्यारम्भे शास्त्रकृता कृतं लक्ष्यते शास्त्रसिद्ध्यन्यथानुपपत्तेः । (२) यमुद्दिश्य शास्त्रमुच्यते तन्निमित्तम् । तचेह भव्या इत्येवं निर्दिष्टमेव । हेतुः प्रयोजनम् । तच्चेह सम्यग्धर्मस्वरूपादिज्ञानलक्षणं दिशामीति शृणुतेति च पदद्वयेन सूचितं लक्ष्यते । येन हि क्रियायां प्रयुज्यते तत्प्रयोजनम् । शास्त्रश्रवणादिक्रियायां च ज्ञानेन प्रयुज्यते इति तदेव शास्त्रस्य मुख्यं प्रयोजनम् । शास्त्रश्रवणादेानं मे जनिष्यत इति हेतुरत्र प्रवर्तते । तदस्य शास्त्रस्य सम्यग्धर्मस्वरूपज्ञानमेव मुख्यं प्रयोजनम् । आनुषङ्गिकं तु धर्मसामग्र्यादिज्ञानमपि तत्परिज्ञानात्पुनः सम्यग्धर्मानुष्टाने प्र. वर्तमानोनन्तज्ञानहरवीर्यवैतृष्ण्यमयमव्ययमतीन्द्रियं च सुखं परमाव्याबाधत्वं च प्रामोति। इति परम्परया तदुभयमप्यस्य शास्त्रस्य प्रयोजनं वस्तुतः सुखस्य दुःखनिवृत्तेर्वा पुरुषेणार्थ्यमानत्वात् ततश्च निर्दुःखं सुखमिति पदद्वयेनोक्तमेव। सम्यग्धर्मस्वरूपादेः शास्त्रस्य चाभिधानाभिधेयभावलक्षणः संबन्धो नान्नैवाभिहितः । सम्यग्धर्मानुष्ठानस्यानन्तसुखादेश्च साधनभावस्वभावोसौ निश्चयः ।
एतेनास्य शास्त्रस्य संबन्धाभिधेयप्रयोजनशून्यत्वशङ्कादुर्जनापवादशङ्कापनोदार्थमाह
परानुग्रहबुद्धीनां महिमा कोप्यहो महान् ।
१ 'म' इति शब्दस्यैव मङ्गलमर्थ इति मं-शब्देन भवितव्यम् । २ त्रैलोकेशइत्यादिपाठः 'ख' पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org