________________
अनगारधर्मामृतेmmmmmmmm
येन दुर्जनवाग्वज्रः पतन्नेव विहन्यते ॥ ७॥ अहो आश्चर्य वर्तते । कोसौ ? कोपि कश्चिदनिर्वचनीयो महिमा माहात्म्यं प्रभावः । केषाम् ? परानुग्रहबुद्धीनाम् । परेषामनुग्राह्यदेहिनामनुग्रहे व्यापत्तिनिवारणे बुद्धिरन्तःकरणप्रवृत्तिर्येषां त एवम् । किं. विशिष्टः ? महान् विपुलः, सर्वत्र सर्वदा प्रत्युपकारनिरपेक्षतया सर्वेषां समीहितार्थप्रसूतिहेतुत्वात् । येन किं क्रियते इत्याह-येन का करणेन वा विहन्यते प्रतिबध्यते । कोसौ ? दुर्जनवाग्वज्रः दुर्जनानां परापकरणशीलानां वाग्वचो वज्र इव सहसा दारुणविनिपातहेतुत्वादुर्निवारत्वाच्च । किं कुर्वन् ? पतन्नेव पतनक्रियायाः प्रथमक्षणे एव वर्तमानः । सम्यग्धर्मोपदेशकानां समासोक्त्या कलिकाले दुर्लभत्वं भावयितुमाहसुप्रापाः स्तनयित्नवः शरदि ते साटोपमुत्थाय ये, प्रत्याशं प्रसृताश्चलप्रकृतयो गर्जन्त्यमन्दं मुधा । ये प्रागब्दचितान् फलर्द्धिमुदकैीहीनयन्तो नवान् , सत्क्षेत्राणि पणन्त्यलं जनयितुं ते दुर्लभास्तद्धनाः ॥८॥ स्तनयित्नवो मेघाः समासोक्त्या देशकाश्वोपमेयाः । एवमुत्तरत्रापि । शरदि घनान्ते दुष्षमायां च साटोपं ससंरम्भमुत्थाय उत्पद्य उद्धतीभूय प्रत्याशं प्रतिदिशं प्रतिस्पृहं च प्रसृता दूरदेशव्यापिनः चलप्रकृतयोल्पकालस्थायिनोऽनवस्थितस्वभावाश्च गर्जन्ति गलगर्जितं कुर्वन्ति अमन्दमुच्चैः मुधा विफलमनुरूपवृक्ष्यकरणादऽभ्युदयनिःश्रेयसमार्गानुपदर्शनाच्च । इति पदार्थः प्रत्येयः । भवन्ति । के ? अमी ते स्तनयित्नवः । किंविशिष्टाः ? सुप्रापा: सुलभाः । व ? शरदि । ये किम् ? ये गर्जन्ति । कथं कृत्वा ? अमन्द तथा मुधा। किं कृत्वा ? उत्थाय । कथम् ? साटोपम् । किविशिष्टाः सन्तस्तथा गर्जन्ति ? प्रसृताः । कथम् ? प्रत्याशम् । पुनः किंविशिष्टाः ? चलप्रकृतयः। अत्र स्तनयित्नवः इत्यनेन सकलविशेषणसाध
ान्मिथ्योपदेशका एव प्रतीयन्ते समासोक्त्यलंकारबलात् । तल्लक्षणं भट्ट. रुद्रटोक्तं यथा
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org