________________
प्रथमोऽध्यायः ।
सकलसमानविशेषणमेकं यत्राभिधीयमानं सत् । उपमानमेव गमयेदुपमेयं सा समासोक्तिः ॥
उदाहरणम्
१७
फलमविकलमलघीयो लघु प्रीणितसकलप्रणयिप्रणतस्य समुन्नतेः सुतरोः ॥
एवमुत्तरार्धेपि व्याख्येयम् । प्रागब्दचितान् प्रावृङ्गेघपुष्टान् पूर्वाचार्यव्युत्पादितांश्च । प्राञ्चः पूर्वेब्दाः प्रागब्दाः तैश्विताः फलार्ध कणसंपत्तिं सदाचरणप्रकर्षं च । उदकैर्जलैः सम्यगुपदेशैश्च । व्रीहीन् धान्यानि । प्रागब्दचितानिति विशेषणाच्छाल्यादिस्तम्ब रूपाणि पक्षे शास्त्रार्थरहस्यविशेषांश्च नवान् गोधूमादिस्तम्बानपूर्वव्युत्पत्तिविशेषांश्च । सत्क्षेत्राणि शोभनसस्याधिकरणानि विनीतविनेयांश्च पृणन्ति पूरयन्ति अलं पर्याप्तं फलार्द्ध समृद्धं कृत्वा जनयितुं प्रादुर्भावयितुं तद्वनाः शरन्मेघाः समासोक्त्या ऐदंयुगीनगणिनश्च भवन्ति । केमी ? ते तद्धनाः । तस्याः शरदो घनास्तद्धनाः । किंविशिष्टाः ? दुर्लभाः दुष्प्रापाः । कथमपि लभ्या इत्यर्थः । ये किम् ? ये पृणन्ति । कानि ? सत्क्षेत्राणि | कैः ? उदकैः । किं कर्तुम् ? जनयितुम् । कथम् ? अलम् । कान् ? व्रीहीन् । किंविशिष्टान् ? नवान् । किं कुर्वन्तः ? नयन्तः प्रापयन्तः । कान् ? व्रीहीन् । किंविशिष्टान् ? प्रागब्दचितान् । काम् ? फलर्द्धिम् । कैः ? उदकैः । अत्रापि तद्धना इत्यनेन सकलविशेषणसाधर्म्यात्सम्यगुपदेशका एव प्रतीयन्ते समासोक्त्यलंकार बलात् ॥
।
1
परिणति जायतेस्य सुस्वादु ।
व्याचष्टां शास्त्रमाचार्य इत्यनेनोद्दिष्टमाचार्यं लक्षयितुं व्यवहारप्रधानदेशनायाः कर्तारमाशंसति
Jain Education International
प्रोद्यनिर्वेद पुष्यद्व्रतचरणरसः सम्यगाम्नायधर्ता, धीरो लोकस्थितिज्ञः खपरमतविदां वाग्मिनां चोपजीव्यः । सन्मूर्तिस्तीर्थत स्वप्रणयननिपुणः प्राणदाज्ञोभिगम्यो, निर्ग्रन्थाचार्यवर्यः परहितनिरतः सत्पथं शास्तु भव्यान् ॥९॥ व्रतानां वक्ष्यमाणलक्षणानां चरणं गुप्तिसमितियुक्तत्वेनानुष्ठानं व्रतचर
अन० ध० २
For Private & Personal Use Only
www.jainelibrary.org