________________
१८
अनगारधर्मामृते
णम् । तस्य तस्मिन्वा रसो हर्षों व्रतचरणरसः। प्रकर्षण शान्तरसप्रात्यभिमुखत्वेनोद्यन्नात्मदेहान्तरज्ञानभावनावष्टम्भादारोहन् प्रोद्यन् । स चासौ निर्वदश्च भवाङ्गभोगवैराग्यं प्रोद्यनिर्वेदः । तेन पुष्यन् प्रतिक्षणं प्रकृष्यमाणो व्रतचरणरसो यस्य स प्रोद्यनिर्वेदपुण्याहतचरणरसः । धर्मवीररसाविष्ट इत्यर्थः । सम्यक् संपूर्णः प्रथमाद्यनुयोगचतुष्टयविशिष्ट आन्नाय आगमः सम्यगानायः । तथा सम्यकू प्रशस्त आन्नायः पितृगुरुसंतानः सम्यगाम्नायः। तयोर्धर्ताऽनुपघातवृत्त्या स्वस्मिन्नवस्थापकः सम्यगामायधर्ता । पारम्पयोंपदेशसंतानक्रमायाततत्त्वज्ञानसदाचरणपरायण इत्यर्थः। धीरःपरिषहोपसगैरविकार्यः । लोकस्य चराचरस्य जगतः स्थितिरित्थंभावनियमो लोकानां वा वर्णाश्रमाणां स्थितिर्व्यवहारो लोकस्थितिः। तां जानातीति लोकस्थितिज्ञः। स्वस्यात्मनः परेषां च बौद्धादीनां मते शासने स्वपरमते स्याद्वादसर्वथैकान्तवादौ । स्वपरमते विदन्ति जानन्ति स्वपरमतविदस्तेषां स्वपरमतविदाम्। स्त्रसमयपरसमयज्ञानिनामुपजीव्यो नोपजीवकः । तेषामुपरि स्फुरन्नित्यर्थः । तथा वाग्वाणी प्रशस्तातिशायिनी वा एषामस्तीति वाग्मिन: वाचो ग्मिन्' इत्यनेन मत्वर्थीयो ग्मिन् । तेषामप्युपजीव्यः। वादिनां वाग्मिनां च धुरि रेखां प्राप्त इत्यर्थः । सती सामुद्रिकोक्तलक्षणलक्षितत्वेन सेतरलोमशासितस्थूलदीर्घत्रिदोषरहितत्वेन च प्रशस्ता मूर्तिः शरीरं यस्यासौ सन्मूर्तिः । उक्तं चार्षे
रूपाम्नायगुणैराख्यो यतीनां मान्य एव च ।
तपोज्येष्ठो गुरुश्रेष्टो विज्ञेयो गणनायकः ॥ इति। ... तरन्ति संसारार्णवमनेनेति तीर्थ सर्वमनेकान्तात्मकमिति मतम् । तस्य प्रणयनं सकलप्रवादतिरस्कारप्रतपद्व्यवहारनिश्चयनयप्रयोगप्रकाशितविचित्रा कारचक्रात्मकवस्तुप्रतिपादनम् । तत्त्वमध्यात्मरहस्यम् । तस्य प्रणयनं भूता. थेतरनयद्वयव्यवस्थापितदयादमत्यागलमाधिप्रवर्तनसनिकृष्यमाणपरमानन्दपदप्रदेशनम् । तीथं च तत्त्वं च तीर्थतत्त्वे । तयोः प्रणयने मुख्योपचारविवरणे तीर्थतत्वप्रणयने । तयोनिपुणः प्रवीणः स्वपरप्रत्ययकारीति तीर्थतत्त्वप्रगयननिपुणः । तदन्यतरनैपुण्यं हीतरविलोपः स्यात् । तथा चोक्तम्--
जइ जिणमयं पवंजह तामा ववहारणिच्छए मुअह । एकेण विणा छिजा तित्थं अण्णेण पुण तच्चं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
ww