________________
प्रथमोऽध्यायः ।
चरणकरण पहाणा ससमयपरमत्थमुक्कवावारा । चरणकरणं ससारं णिच्छयसुद्धं ण जाणन्ति ॥ णिच्छयमालंयंता णिच्छयदो णिच्छयं अजाणता । णासिंति चरणकरणं बाहिरकरणालसा केई ॥ इति ।
प्राणन्ती जीवन्ती स्वैः परेश्चाष्टक्ष्यमाणा आज्ञा शासनं नियोगो यस्यासैौ प्राणदाऽऽज्ञः षड्जीवनि कायपालन पर्यवसानशासन इत्यर्थः । अभिभुख्येन गम्यते आश्रीयते इत्यभिगम्यः सर्वेषां सुखोपचर्यः । प्रियहितवादित्वप्रायः प्रश्नस हत्वादिगुणालंकृत इत्यर्थः । ग्रनन्ति दीर्घीकुर्वन्ति संसार मिति ग्रन्था मिथ्यात्वादयः । तेभ्यो निष्क्रान्ता निर्ग्रन्था यतयः । पञ्चप्रकारमा - चारं स्वयमाचरत्याचारयति च शिष्यानित्याचार्यः । " कृत्ययुटोन्यत्रापि च " इति कर्तरि प्रथमपक्षे तु "वर्णव्यञ्जनान्ताद् ध्यण्" इति ध्यण् । द्वितीयपक्षे च "स्वराय" इति यः । तथा चोक्तम्
• १९
पञ्चधाचरन्त्याचारं शिष्यानाचारयन्ति च । सर्वशास्त्रविदो धीरास्तेत्राचार्याः प्रकीर्तिताः ॥ इति । निर्ग्रन्थानामाचार्या निर्ग्रन्थाचार्याः । तेषु वर्यो मुख्यो निर्ग्रन्थाचार्यवर्यः । परेभ्यो हितमुपकारकं परहितम् । तत्र निरतो नियतमासक्तः । शश्वत्परोपकारपर इत्यर्थः । सन् प्रशस्तोऽबाध्यमानत्वात् सद्भिः सेव्यमानत्वाच्च पन्था व्यवहारनिश्चय मोक्षमार्गः सत्पथस्तम् ।
—
अथ समन्वयः - शास्तु प्रतिपादयतु । कोसौ ? निर्ग्रन्थाचार्यवर्यः । कान् ? भव्यान् । कम् ? सत्पथम् । किंविशिष्टः सन् ? परहितनिरतः । पुनः किंविशिष्टः ? प्रोद्यदित्यादिग्रन्थोक्तदश विशेषणविशिष्टः । अत्र शास्त्वित्याशिषि पञ्चमी । यथोक्तगुणविशिष्टो देशनाचार्यो भूयादित्याशास्महे इत्यर्थः । अध्येषणायां वात्र पञ्चमी । यथोक्तगुणो गणी सत्कारपूर्वकं देशनायां व्यापरणीय इत्यर्थः ॥
अथाध्यात्मरहस्यगुरोः सेवायां मुमुक्षून्नियोकुमाह
विधिवद्धर्मसर्वस्वं यो बुद्धा शक्तितश्वरन् । प्रवक्ति कृपयान्येषां श्रेयः श्रेयोर्थिनां हि सः ॥ १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org