________________
२०.
अनगारधर्मामृते
श्रेयः सेव्यः । कोसौ ! स हि स एव । अनावधारणार्थो हि शब्दो भिन्नक्रमो योज्यः । केषाम् ? श्रेयोर्थिनाम् । श्रेयो निःश्रेयसमर्थयन्ते वान्छन्ति तच्छीलास्तेषाम् । “व्यस्थता वा कर्तरि" इति कर्तरि षष्ठी। मुमुक्षुभिरित्यर्थः। यः किम् ? यः प्रवक्ति आशुश्रूषतमःक्षयात्कथयति । किं तत् ? धर्मसर्वस्वम्। धर्मस्य व्यवहारेतररत्नत्रयात्मनः सर्व संपूर्ण स्वमसाधारणं रूपं धर्मसर्वस्वम् । धर्मो वा सर्वस्वं यस्य सोयं धर्मसर्वस्वस्तम् । रत्नत्रयसमाहितमात्मानमित्यर्थः। कथम् ? विधिवत् । विधिमहतीति "तदर्हे वत्" इति वत् । विधेयतयेत्यर्थः । केषामग्रे ? अन्येषां विनेयानाम् । कया ? कृपया अनुकम्पया, न लाभपूजाख्यात्यपेक्षया। किं कुर्वन् ? चरन् स्वयमासेवमानः । किं तत् ? धर्मसर्वस्वम् । कुतः ? शक्तितो बल. वीर्यानिगृहनेनेत्यर्थः । किं कृत्वा ? बुवा परमागमात्सद्गुरुसंप्रदायात् स्वसंवेदनाद्वाधिगम्य । किं तत् ? धर्मसर्वस्वम् ॥ देशनाचार्याध्यात्मरहस्यदेशकयोोंके प्रभावप्राकट्यमाशास्तेस्वाथकमतयो भान्तु मा भान्तु घटदीपवत् । परार्थे स्वार्थमतयो ब्रह्मवद्भान्त्वहर्दिवम् ॥ ११॥ इह हि मुमुक्षवस्त्रिधा संभवन्ति । तत्र केचित्परोपकारप्रधानस्त्रोपकाराः। तथा चोक्तमाः
स्वदुःखनिघृणारम्भाः परदुःखेषु दुःखिताः। निर्व्यपेक्षं पयर्थेषु बद्धकक्षा मुमुक्षवः ॥ इति । अन्ये स्त्रोपकारप्रधानपरोपकाराः । तथा चोक्तम्
आदहिदं कादव्वं जइ सक्कइ परहिदं च कादव्वं ।
आदहिदपरहिदादो आदहिदं सुट्ट काव्वं ॥ इति । इतरे स्वोपकारैकपराः । तथा चोक्तम्
परोपकृतिमुत्सृज्य स्वोपकारपरो भव ।। उपकुर्वन् परस्याज्ञो दृश्यमानस्य लोकवत् ॥ इति । १ 'सहि' इति मूले एव पाठश्चेन्नार्थो भिन्नक्रमेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org