________________
प्रथमोऽध्यायः ।
तत्रान्त्येषु ताटस्थ्यं भावयितुमाह--स्वाथै केत्यादि । भान्तु लोके आत्मानं प्रकाशयन्तु । के ते ? स्वार्थे एकस्मिन् परार्थरहिते मतिः कर्तव्यतया प्रतिपत्तिर्येषां ते एते स्वार्थकमतयः । अथवा मा भान्तु । उभयत्र पक्षे साम्यमस्साकमित्यर्थः । किंवत् ? घटदीपवत् । अयमों-घटमध्यस्थो दीपो भातु दीप्यतां मा वा भातु । कस्तत्र हर्षामर्षयोरवसरो लोके, तस्य हेयोपादेयार्थप्रकाशकत्वेनोपेक्षविषयत्वात् । परार्थे स्वार्थमतयः पुनर्भा न्तु । किंवत् ? ब्रह्मवत् सर्वज्ञतुल्यम् । कथम् ? अहर्दिवं दिने दिने अहोरात्रं चेत्यर्थः । परार्थे परेणार्थ्यमाने वस्तुनि स्वार्थे इव मतिर्येषां ते तथोताः । अहश्च दिवा चेत्यहर्दिवम् । नित्यमित्यर्थः । “नक्तंरात्रिमहोभ्यो दिवम्" इत्यनेन साधुत्वमस्य । भान्वित्याशिषि लोट् । अत्रेयं भावनाप्रकटप्रभावे देशके लोकः परं विश्वासमुपेत्य तद्वचनान्निरारेकमामुत्रिकार्थाय यतते ॥
इदानीमासन्नभव्यानामतिदुर्लभत्वेपि न देशना निष्फला । इति तां प्रतिवक्तुमुत्साहयति
पश्यन् संमृतिनाटकं स्फुटरसप्राग्भारकिर्मीरितं, स्वस्थश्चर्वति निर्वृतः सुखसुधामात्यन्तिकीमित्यरम् । ये सन्तः प्रतियन्ति तेऽद्य विरला देश्यं तथापि कचित् , काले कोपि हितं श्रयेदिति सदोत्पाद्यापि शुश्रूषुताम्।।१२॥ पश्यन् निर्विकल्पमनुभवन् संसृतिः संसारो नाटकमभिनेयकाव्यविशेष इव प्रेक्षकजनानामिव मुक्तात्मनां सान्द्रानन्दनिदानत्वात् । इति संसृतिनाटकं । स्फुटन्ति विकसन्ति विभावानुभावव्यभिचारिभिरभिव्यज्यमानाः प्रतीतिमायान्ति इति । स्फुटा व्यक्ता स्थायिभावाः विभावानुभावव्यभिचारियोगात् परिपोषमागता रत्यादिस्थायिभावाः। रस्यन्ते आस्वाद्यन्ते मनसेति रसाः शृङ्गारादयः । तत्सामान्यलक्षणं यथा
कारणान्यथ कार्याणि सहकारीणि यानि च । रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org