Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
अनगारधर्मामृते
~
~
~
~
स्वस्वविषयेभ्यः प्रच्याव्यैवं कृतपरिकर्माणः शुद्धं स्वात्मानमात्मना शुद्धे स्वात्मनि समादधानास्तन्नापि वितृष्णाः सन्तो निरस्तघातिकर्माणो नैसर्गिकनिश्चलचैतन्यमधिष्ठिता विघटिताऽघातिकर्माणो लोकाग्रमधिष्ठाय केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वैये शश्वत्प्रतपन्ति ते मयि नोआगमभावरूपतया भगवन्तः सिद्धपरमेष्टिनः स्वात्मानं दर्शयन्त्यिति ।
अन च सर्व एवार्हदादिगुणानुरागाः शुभपरिणामत्वादशुभकर्मप्रकृतीनां रसप्रकर्षमुन्मूल्य वान्छितार्थप्रसाधनाय भवन्ति इति प्रेक्षापूर्वकारिणः पूर्वा. चार्याः स्वस्य ज्ञानदानान्तरायं श्रोतृणां च ज्ञानलाभान्तरायं निराकर्तुकामा निजनिजशास्त्रारम्भेहदादीनां समस्तानां व्यस्तानां वा तद्गुणमात्रस्य वा संस्तव कामचारेण मङ्गलमुपात्तवन्तः प्रतीयन्ते। इत्यस्य शास्त्रस्यादौ स्वपरविनविघाताय प्राक् सिद्धानां पश्चाच्चाहदादीनां विनयकर्म नान्दीमङ्गलत्वेन ग्रन्थकारश्चकार । किंच
यो यद्गुणार्थी स तद्वन्तमुपाश्रयति । इति सिद्धगुणार्थी ग्रन्थकृत् प्रथम सिद्धानुपाश्रयति स्म, तत्प्राप्युपायोपदेशकज्येष्ठतया पश्चादहदादीनामपि । तथा चोक्तम्
अभिमतफलसिद्धेरभ्युपायः सुबोधात्, प्रभवति स च शास्त्रात्तस्य चोत्पत्तिराप्तात्। इति भवति स पूज्यस्तत्प्रसादप्रवुद्ध,
ने हि कृतमुपकारं साधवो विस्मरन्ति ॥ इति । तथा क्षिप्रं मोक्षार्थिना मुक्तात्मान एव परमार्थतो भक्तव्या इत्युपदेष्टुं प्राक् सिद्धाराधना ग्रन्थकृता कृता । तथा चोक्तम्
सपयत्थं तित्थयरं अधिगतबुद्धिस्स सुत्तरोयस्स। दूरतरं णिव्वाणं संजमतवसंपदं तस्स ॥ तम्हा णिव्वुदिकामो णिस्संगो णिम्ममो य भविय पुणो । सिद्धेसु कुणदि भंती णिव्वाणो तेण पप्पोदी ॥ इति । १ तस्मान्निवृतिकामो निःसङ्गो निर्ममश्च भूत्वा पुनः। सिद्धेषु करोति भक्ति निर्वाणं तेन प्राप्नोति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 698