________________
अनगारधर्मामृते
अविद्याभिदुरं ज्योतिः परं ज्ञानमयं महत् । तत्प्रष्टव्यं तदेष्टव्यं तद् द्रष्टव्यं मुमुक्षुभिः ॥ इति च । सैषा ज्ञानाराधना। संयमनं पूर्व पश्चात्किंचिदिति संयम्य, तत्तत्स्वस्व विषयादः स्पर्शनादीन्द्रियैः सह वर्तमानं मनोऽन्तःकरणं निवर्येत्यर्थः । यथास्वावरणवीर्यान्तरायक्षयोपशमसन्निधाने सत्यक्ष्णोति व्याप्नोति जानाति यथास्वं स्पर्शादिविषयानेभिरामेत्यक्षाणि लब्ध्युपयोगरूपाणि स्पर्शनादिभावेन्द्रियाणि । नो इन्द्रियावरणवीर्यान्तरायक्षयोपशमसन्निधाने सति द्रव्यमनसा कृतानुग्रह आत्मा मनुते जानाति मूर्तममूर्त च वस्तु गुणदोषविचारसरणादिप्रणिधानरूपेण विकल्पयत्यनेनेति मनो गुणदोषविचारसरणादिप्रणिधानलक्षणं भावमन इत्यर्थः । भवति चात्र पद्यम्
गुणदोषविचारस्मरणादिप्रणिधानमात्मनो भावमनः।
तदभिमुखस्यास्यैवानुग्राही पुद्गलोच्चयो द्रव्यमनः ॥ सैषा तपआराधना, इन्द्रियमनसोर्नियमानुष्ठानं तप इत्यभिधानात् । सोयं व्यवहारमोक्षमार्गः। ध्यात्वा एकाग्रचिन्तानिरोधलक्षणध्यानगोचरीकृत्ये । “अर्थवशाद्विभक्तिविपरिणाम" इति अमले आत्मन्यमुह्यत्यऽरज्यत्यद्विषति चेत्यर्थः । शं वैतृष्ण्यं सान्द्रानन्दशुद्धस्वात्मानुभूतियोगादत्यन्ततृप्तत्वादतिशयेनैषामस्तीति शमिनो ध्येयेपि वितृष्णाः सन्त इत्यर्थः । तथा चोक्तम्
किमत्र बहुनोक्तेन ज्ञात्वा श्रद्धाय तत्त्वतः।
ध्येयं समस्तमप्येतन्माध्यस्थ्यं तत्र बिभ्रता ॥ इति । स्वयं स्वसंवेदनरूपेणात्मना । अमलमित्यत्रापि पूर्ववद्याख्येयम् । स्वममलं द्रव्यभावकर्मनिर्मुक्तं स्वपरज्ञप्तिरूपमात्मानं विपरीताभिनिवेशसंशयविपर्ययानध्यवसायविविक्तं परमौदासीन्यरूपं वा । निरवधिशुद्धज्ञानानन्दात्मकमिति यावत् । सोयं ध्यात्वेत्यादिना निश्चयमोक्षमार्गः । उक्तं च
रयणत्तयं ण वदृइ अप्पाण मुइंतु अण्णदवियम्हि । १ साक्षमिति मूलोक्तं पदं विग्रहेणात्र दर्शितम् । २ इतः परं मूलोक्तं स्वे इति पदमावश्यकम् । कुतः ? तद्विशेषणस्य 'अमले' इति पदस्याग्रे विद्यमानत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org