________________
प्रथमोऽध्यायः।
तम्हातत्तियमइओहोदि हु मोक्खस्स कारणं आदा॥ इति । निर्मूल्य समूलचूलं क्षपयित्वा । मिथ्यादर्शनादिपरतत्रेणात्मना क्रियते वध्यते इति कर्म आत्मनः पारतन्त्र्यनिमित्तं ज्ञानावरणादिकमात्मप्रदेशपरिस्पन्दरूपं वा । अखिलं समस्तं द्रव्यभावरूपं घात्यधाति च तथान्यद्वादरं सूक्ष्मं च । येऽनादिमिथ्यादृष्टयः सादिमिथ्यादृष्टयो वा भव्यजीवाः शर्मप्रगुणैः । शर्म सुखं तदेव प्रकृष्टं, सर्वेषामभीष्टतमत्वाद्, गुणो धर्मो येषां ते शर्मप्रगुणास्तैः शर्मप्रगुणैः । परमानन्दामृतखचितैरित्यर्थः । चकासति नित्यं दीप्यन्ते नित्यप्रवृत्तस्य वर्तमानस्य विवक्षितत्वात् । एवमुत्तरत्रापि । गुणैरनन्तज्ञानादिभिरष्टभिः । तत्र मोहक्षयात्परमं सम्यक्त्वं सुखं वा । ज्ञानदर्शनावरणक्षयादनन्तज्ञानदर्शने । अन्तरायक्षयादनन्तवीर्यम् । वेदनीयक्षयादव्याबाधत्वमिन्द्रियजनितसुखाभावो वा। आयुःक्षयात् परमसौक्षम्यमुत्पत्तिमरणहतिर्वा । नामक्षयात्परमावगाहनममूर्तत्वं वा । गोत्रक्षयादगुरुलधुत्वमुभयकुलाभावो वा । ते यथोक्तगुणैर्दीप्यमाना भान्तु परिस्फुरन्तु स्वसंवेदनसुव्यक्ताः सन्त्वित्यर्थः । आशिषि लोट । सिद्धाः । सिद्धिः स्वात्मोपलब्धिरेषामतिशयेनास्तीति सिद्धाः । “अर्शआदेर्" इत्यनेन मत्वर्थीयोऽप्रत्ययः । मयि प्रथमं ग्रन्थकर्तर्यात्मनि पश्चात्तदध्येत्रादिष्वपि । एवं समासादुक्तः पदार्थः ।
संप्रति वाक्यार्थः कथ्यते । तत्रेयं पदघटना ।-भान्तु । के ? कारस्ते सिद्धाः। क ? मयि । ये किम् ? ये चकासति । कैः ? गुणैः । किंविशिष्टैः ? शर्मप्रगुणैः। किं कृत्वा ? निर्मूल्य । किं तत् ? कर्म । किंविशिष्टम् ? अखिलम् । किं कृत्वा ? ध्यात्वा । कम् ? स्वम् । किंविशिष्टम् ? अमलम् । केन ? स्वयम् । क ? स्वे। किंविशिष्टाः सन्तः ? शमिनः । किं कृत्वा ? संयम्य । किं तत् ? मनः । किंविशिष्टम् ? साक्षम्। किंविशिष्टाः सन्तः ? अजस्त्रसुश्रुतपराः। किं कृत्वा ? त्यक्त्वा । कम् ? संगम् । किंविशिष्टम् ? सर्वशः। किंविशिष्टाः सन्तः ? सर्वसहाः । सर्वसहत्वात्सर्वसङ्गत्यागं कृत्वेत्यर्थः । कथंभूता भूत्वा ? उदीर्णसुदृशः। कस्मात् ? हेतुद्वैतबलात् ।
इदमन तात्पर्यम् । हेतुद्वैतबलेन सम्यग्दर्शनमारुह्य सर्वसहत्वे सति सर्वसङ्गत्यागं कृत्वा शश्वत् सम्यक्श्रुतभावनाप्रधानाः सन्तः सर्वेन्द्रियाणि मनश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org