________________
प्रथमोऽध्यायः।
त्तसन्निधानादुपनिपतितैः परीषहोपसगैरभिभवितुमशक्या इत्यर्थः । सर्वशः सर्वं बाह्यमाभ्यन्तरं च सङ्गं परिग्रहं वक्ष्यमाणलक्षणं त्यक्त्वा व्युत्सृज्य सजति सक्तो भवति चेष्टोपयोगरूपवृत्तिद्वारेण ममकाराहंकाराभ्यामनुरज्यति जीवोस्मिन्निति सङ्गः “पुंखां घः प्रायेण" इत्यधिकरणसाधनो घप्रत्ययः । सर्वश इत्यत्र "बह्वल्पार्थाच्छस्कारकादू" इति प्रशंसार्थेन शस्प्रत्ययेन त्यागस्य प्राशस्त्यं द्योत्यते, सर्वसङ्गपरित्यागस्य सर्वैरपि मोक्षवादिभिर्मुक्त्यङ्गत्वेनावश्याभ्युपगमनीयत्वात् । अन्यथा तदनुपपत्तेः । एतेन सम्यक्त्वचारिबाराधनाद्वयं संक्षेपरुचिशिष्यापेक्षयात्र सूत्रितं प्रतिपत्तव्यं, ज्ञानेन दर्शनस्य तपसा च चारित्रस्याविनाभावात् तत्र तयोरन्तर्भावविभावनात् । अजस्रमनवरतं सुश्रुतं स्वात्मोन्मुखसंवित्तिलक्षगत्वेन प्रशस्तं श्रुतमविस्पष्टतकणलक्षणो ज्ञानविशेषः परं प्रधानं येषां तेऽजत्रसुश्रुतपराः । संततस्वात्मोन्मुखसंवित्तिलक्षणश्रुतज्ञानविशिष्टा इत्यर्थः । पूर्वोक्तनीत्या शृणोतिरत्र ज्ञानविशेषार्थः श्रवणं श्रुतं श्रुतज्ञानावरणवीर्यान्तरायक्षयोपशमसन्निधाने सत्याविर्भूततच्छक्तिविशेषस्य साक्षादसाक्षाच्च मतिज्ञान विशेषणाहितातिशयस्यास्मनोऽस्पष्टनानार्थप्ररूपणप्रवणज्ञानविशेषपरिणतिरित्यर्थः । उक्तं च
"मतिपूर्व शब्दयोजनसहितमूहनं श्रुतमिति तच्छ्रुतम् ।" यथाएको मे सासदो आदा णाणदंसणलक्षणो। सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा ॥ संजोगमूलं जीवेण पत्ता दुःखपरंपरा ।
तम्हा संजोगसंबंध सव्वं तिविहेण वोस्सरे ॥ इत्यादि प्रधानार्थपरशब्दप्रयोगात्पुनरेवं लक्षयतिसर्वदा स्वार्थश्रुतज्ञानभावनाकृतावधाना अपि कदाचिदनादिवासनावशात्परार्थशब्दात्मकश्रुतसमुद्यता अपि भवन्ति । तत्र श्रूयते श्रुतं शब्दः शोभनं शुद्धचिदानन्दात्मकात्मप्रतिपादनप्रच्छनादिरूपतया मुमुक्षूणामभिमतं श्रुतं सुश्रुतमिति ग्राह्यम् । तथाचोक्तम्
तद्भूयात्तत्परान् पृच्छेत्तदिच्छेत्तत्परो भवेत् । येनाविद्यामयं रूपं त्यक्त्वा विद्यामयं व्रजेत् ॥ इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org