________________
अनगारधर्मामृते
__"अवयवार्थप्रतिपत्तिपूर्विका समुदायार्थप्रतिपत्तिः" इति प्रथमतस्तावत्क्रमेण पदानामर्थः कथ्यते। हेत्वोः कारणयोद्वैतं द्वयं हेतुद्वैतम्। हेतुद्वैतस्य बलं सामर्थ्य हेतुद्वैतबलम् । तस्माद्धेतुद्वैतबलात् । अन्तरङ्गबहिरङ्गकारणद्वयावष्ट. म्भादित्यर्थः । यद्यपि च हिनोति गच्छति व्यामोति जन्यं जनकत्वेन ज्ञाप्यं च ज्ञापकत्वेनेति हेतुः कारको ज्ञापकश्चेति द्विधा संभवति तथाप्यत्र कारक एव गृह्यते, सम्यग्दर्शनादीनामुदीर्णा दिपदसन्निधानाद् जन्यत्वेन विवक्षितत्वोपलक्षणात् । द्वाभ्यामितं द्वीतमिति समासात् प्रज्ञादित्वादणि सति द्वैतमिति द्वित्वाभिधायि साधु स्यात् । हेतुद्वैतबलादित्येतत् सम्यग्दर्शनसामग्रीत्वेन निर्दिष्टमप्यादिदीपकत्वात् सर्वसङ्गत्यागाजस्रसुश्रुतपरत्वसेन्द्रियमनःसंयमनशुद्धात्मध्याननिखिलकर्मनिर्मूलनैरपि सह संबन्धनीयं, सकलकार्याणामन्तरङ्गबहिरङ्गकारणद्वयाधीनजन्यत्वात् । तत्र सम्यक्त्वस्यान्तरो हेतुरासन्नभव्यतादिर्बाह्यश्वोपदेशकादिः । तथा चोक्तम्
आसन्नभव्यताकर्महानिसंशित्वशुद्धपरिणामाः। सम्यक्त्वहेतुरान्तर्बायोप्युपदेशकादिश्च ॥ इति । एवं सङ्गत्यागादीनामपि यथायोग्यं हेतुद्वयमवसेयम् । उहणाति मोदीर्णा । उद्गता अप्रतिहतवृत्त्या प्रवृत्ताधस्तनभूमिकापेक्षया शङ्कादिदोषनिर्मुक्तत्वेन प्रशस्ता उपरितनभूमिकापेक्षया चाचलक्षायिकत्वेन संपूर्णा दृग् यथावस्थितपरापरवस्तुविषयत्वेन विपरीताभिनिवेशविविक्तात्मरूपलक्षणं श्रद्धानं येषां ते उदीर्णसुदृशः। दृशिरत्र श्रद्धानार्थो गृह्यते, धातनामनेकार्थत्वात् । तथा चोक्तम्
निपाताश्वोपसर्गाश्च धातवश्वेति ते त्रयः।
अनेकार्थाः स्मृताः सद्भिः पाठस्तेषां निदर्शनम् ॥ इति । तथैव सुशब्दो हि प्रशंसाद्यर्थों वेद्यः । अत एव सूत्रकारो हि सम्यग्दर्शनलक्षणं तथैवाध्यगीष्ट, "तत्वार्थश्रद्धानं सम्यग्दर्शनम्" इति । दर्शनं दृग् दर्शनमोहोपशमादिसन्निधाने सत्याविर्भूततच्छक्तिविशेषस्यात्मनो ज्ञानसम्यग्व्यपदेशहेतुस्तत्त्वार्थश्रद्धानपरिणतिरित्यर्थः । सर्व सूत्रे मुमुक्षूणां सहनीयत्वेनोपदिष्टं परीषहोपसर्गजातं सहते इत्यादिभावनाविशेषावष्टम्भान्मृष्यन्ते इति सर्वसहाः । महासात्त्विकत्ववज्रकायित्वयोगानिजनिजनिमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org