________________
AKODAE
CHARGOS
SoocVAI
S
AIRSONARY
RESS
स्वस्त्यहते। पंडितप्रवर-आशाधरविरचितं
अनगारधर्मामृतम्
खोपज्ञभव्यकुमुदचंद्रिकाटीकासहितम् ।
प्रथमोऽध्यायः। अथातः पंडितः श्रीमदाशाधरः शिष्यानुजिघृक्षापारतच्यात् परापरगुरुनमस्कारपुरस्सरं कृत्यं प्रतिजानीते
प्रणम्य वीरं परमावबोधमाशाधरस्तहुणधारिणश्च । स्वोपज्ञधर्मामृतसंज्ञशास्त्रटीका जनानुग्रहणाय कुर्वे ॥ तत्र,
"नास्तिकत्वपरीहारः शिष्टाचारप्रपालनम् । पुण्यावाप्तिश्च निर्विघ्नं शास्त्रादावाप्तसंस्तवात् ॥" इति मनसि कृत्वा ग्रन्थकारः परमाराध्यसिद्धार्हत्परमागमकर्तृव्याख्यातृदेशनाः स्वेष्टसिद्ध्यर्थं क्रमशः सप्रश्रयमाश्रयते । तत्रादौ तावदात्मनि परमामनां परि स्फूर्तिमाशंसयतिहेतुद्वैतबलादुदीर्णसुदृशः सर्वसहाः सर्वश,स्त्यक्त्वा सङ्गमजस्रसुश्रुतपराः संयम्य साक्षं मनः। ध्यात्वा खे शमिनः स्वयं स्वममलं निर्मूल्य कर्माखिलं, ये शर्मप्रगुणैश्चकासति गुणैस्ते भान्तु सिद्धा मयि ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org