Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 15
________________ १२ विपाकश्रुताङ्गसूत्रम् १/१/८ पावगं फलवित्तिविसेसं पञ्चणुभवमाणे विहरइत्ति । 'ऋद्धिस्थिमिए'त्तिऋद्धिप्रधानं स्तिमितंच-निर्भयं यत्तत्तथा, 'वण्णओ'त्तिनगरवर्णकः, स चौपपातिकवद्रष्टव्यः, 'अदूरसामंते'त्ति नातिदूरे न च समीपे इत्यर्थः, 'खेडे'त्ति धूलीप्राकारं 'रिद्ध'त्ति 'रिद्धकत्थमियसमिद्धे' इति द्रष्टव्यम्, 'आभोए'त्ति विस्तारः ‘रट्ठउडत्ति राष्ट्रकूडेमण्डलोपजीवी राजनियोगिकः, अहम्मिए'त्तिअधार्मिकोयावत्करणादिदंश्यम्-'अधम्माणुए अधम्मिढे अधम्मपलोई अधम्मपलज्जणे अधम्मसमुदाचारे अधम्मेणंचेव वित्तिं कप्पेमाणेदुस्सीले दुव्वए'त्ति, तत्र अधार्मिकत्वप्रपञ्चनायोच्यते-'अधम्माणुए' अधर्म-श्रुतचारित्रभावं अनुगच्छतीत्यधर्मानुगः, कुत एतदेवमित्याह-अधम्मएव इष्टो-वल्लभः पूजितो वायस्य सोऽधर्मिष्टः अतिशयेन वाऽधी-धर्मवर्जित इत्यधर्मिष्टः, अत एवाधर्माख्यायी-अधर्मप्रतिपादकः अधर्मख्यातिर्वा अविद्यमानधर्मोऽयमित्येवंप्रसिद्धिकः, तथाऽधर्म प्रलोकयति-उपादेयतया प्रेक्षतेयः स तथा, अतएवाधर्मप्ररजनः-अधर्मरागीअत एवाधर्मः समुदाचारः-समाचारो यस्य सतथा, अतएवाधर्मेण-हिंसादिना वृत्तिं-जीविकांकल्पयन्सन्दुःशीला:-शुभस्वाभावहीनः दुव्रतश्च-व्रतवर्जितः दुष्प्रत्यानन्दः-साधुदर्शनादिना नानन्द्यतइति। _ 'आहेवच्चं तिअधिपतिकर्म, यावत्करणादिदं श्य-'पोरेवचंसामित्तंभट्टित्तंमहत्तरगत्तं आणाईसरसेणावच्चंकारेमाणे तितत्रपुरोवर्तित्वं-अग्रेसरत्वंस्वामित्वं-नायकत्वंभर्तृत्वं–पोषकत्वं महत्तरकत्वं-उत्तमत्वं आज्ञेश्वरस्य-आज्ञाप्रधानस्य यत्सेनापतित्वं तदाज्ञेश्वरसेनापत्यं कारयन्-नियोगिकैर्विधापयन् पालयन् स्वयमेवेति । 'करेहि यत्ति करैः-क्षेत्राद्याश्रितराजदेयद्रव्यैः 'भरेहि यत्ति तेषामेव प्राचुर्यैः 'विद्धीहि य'त्ति वृद्धिभिः-कुटुम्बिनां वितीर्णस्य धान्यस्य द्विगुणादेर्गहणैः, वृत्तिभिरिति कवचित्, तत्र वृत्तयो-राजदेशकारिणांजीविकाः, 'उक्कडाहिय'त्तिलञ्चाभिः पराभएहिय'त्तिपराभवैः 'देजेहि य' अनाभवद्दातव्यैः ‘भेजेहि यत्ति यानि पुरुषमारणाद्यपराधमाश्रित्य ग्रामादिषु दण्डद्रव्याणि निपततन्ति कौटुम्बिकान् प्रति च भेदेनोद्राह्यन्ते तानि भेद्यानि अतस्तैः ‘कुंतेहि य'त्ति कुन्तकम् एतावद्रव्यं त्वयादेयमित्येवंनियन्त्रणयानियोगिकस्यदेशादेर्यत्समर्पणमिति, ‘लंछपोसेहि य'त्ति लच्छाः-चौरविशेषाः संभाव्यन्ते तेषां पोषाः-पोषणानि तैः, 'आलीवणेहि यत्ति व्याकुललोकानां मोषणार्थं ग्रामादिप्रदीपनकेः 'पंथकोट्टेहि यत्ति सार्थघातैः ‘उवीलेमाणे'त्ति अवपीलयन-बाधयन् । 'विहम्मेमाणे'त्ति विधर्मयन्-स्वाचारभ्रष्टान् कुर्वन् 'तज्जमाणे'त्ति कृतावष्टम्भान् तर्जयन्-ज्ञानस्थ रे यन्मम इदं च इदं च न दस्त्वेत्येवं भेषयन् ‘तालेमाणे त्ति कशचपेटादिभिस्ताडयन् ‘निद्धणेकरेमाणे'त्ति निर्द्धनान् कुर्वन् विहरति । 'तएणं से इक्कई रडकूडे विजयवद्धमाणस्सखेडस्ससत्कानां बहूणंराईसरतलवरमाडंबियकोडुंबियसेट्ठिसत्थवाहाणं' इह तलवराः-राजप्रसादवन्तो राजोत्थासनिकाः ‘माडम्बिकाः' मडम्बाधिपतयो मडम्बंच-योजनगद्वयाभ्यन्तरेऽविद्यमानग्रामादिनिवेशः सन्निवेशविशेषः शेषाः प्रसिद्धाः, 'कजेसुत्ति कार्येषु-प्रयोजनेषुअनिष्पन्नेषु 'कारणेसु'त्तिसिसाधयिषितप्रयोजनोपायेषु विषयभूतेषुयेमन्त्रादयो व्यवहरान्तस्तेषु, तत्रमन्त्राः-परप्यालोचनानि गुह्यानि-रहस्यानिनिश्चयारहस्यानि निश्चय-वस्तुनिर्णयः व्यवहारा-विवादास्तेषुविषये। 'एयकम्मे एतद्वयापारः एतदेववा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 372