Book Title: Agam Suttani Satikam Part 06 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 8
________________ शतकं-११, वर्गः-, उद्देशकः - १ नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ५ भगवती अङ्गसूत्रं (२) सटीकं ( अपरनाम - व्याख्या प्रज्ञप्त्यङ्गसूत्रं-सटीकं) पञ्चम अङ्गसूत्रं (भाग - २) (मूलम् + अभयदेवसूरिविरचिता वृत्तिः) शतकं - ११ वृ. व्याख्यातं दशमं शतं, अथैकादशं व्याख्यायते, अस्य चायमभिसम्बन्धःअनन्तरशतस्यान्तेऽन्तरद्वीपा उक्तास्ते च वनस्पतिबहुला इति वनस्पतिविशेषप्रभृतिपदार्थः स्वरूपप्रतिपादनायैकादशं शतं भवतीत्येवंसम्बद्धस्यास्योद्देशकार्थः सङ्ग्रहगाथामू. (४९४)उप्पल १ सालु २ पलासे ३ कुंभी ४ नाली य ५ पउम ६ कन्नी ७ य । नलिनसिव ९ लोग १० काला ११ लंभिय १२ दस दोय एक्कारे ॥ वृ. 'उप्पले’त्यादि, उत्पलार्थः प्रथमोद्देशकः १ 'सालु' त्ति शालूकं - उत्पलकन्दस्तदर्थो द्वितीयः २ ‘पलासे’त्ति पलाशः - किंशुकस्तदर्थः स्तृतीयः ३ 'कुंभी 'ति वनस्पतिविशेषस्तदर्थःश्चतुर्थः ४ नाडीवद्यस्य फलानि स नाडीको - वनस्पतिविशेष एव तदर्थः पञ्चमः ५ 'पउम 'त्ति पद्मार्थः षष्ठः ६ 'कन्नीय'त्ति कर्णिकार्थः सप्तमः ७ 'नलिण' त्ति नलिनार्थोऽष्टमः ८ यद्यपि चोत्पलपद्मनलिनानां नामकोशे एकार्थः तोच्यते तथाऽपीह रूढेर्विशेषोऽवसेयः, 'सिव' त्ति शिवराजर्षिवक्तव्यतार्थो नवमः ९ 'लोग' त्ति लोकार्थो दशमः १० 'कालालभिए 'त्ति कालार्थः एकादशः ११ आलभिकायां नगर्यां यत्प्ररूपितं तत्प्रतिपादक उद्देशकोऽप्यालभिक इत्युच्यते ततोऽसौ द्वादश १२, 'दस दो य एक्कारि ति द्वादशोद्देशका एकादशे शते भवन्तीति । तत्र प्रथमोद्देशकद्वारसङ्ग्रहगाथा वाचनान्तरे टास्ताश्चेमाः मू. (४९५) उववाओ १ परिमाणं २ अहवारु ३ चत्त ४ बंध ५ वेदे ६ य । उदए ७ उदीरणाए ८ लेसा ९ दिट्ठी १० य नाणे ११ य ॥ ५ मू. (४९६) जोगु १२ वओगे १३ वन्न १४ रसमाई १५ ऊसासंगे १६ य आहारे १७ । विरई १८ किरिया १९ बंधे २० सन्न २१ कसायि २२ त्थि २३ बंधे २४ य ॥ मू. (४९७)सन्निं २५ दिय २६ अणुबंधे २७ संवेहा २८ हार २९ ठिइ ३० समुग्धाए ३१ । चयणं ३२ मूलादीसु य उववाओ ३३ सव्वजीवाणं ॥ वृ. 'उववाओ' इत्यादि, एतासां चार्थः उद्देशकार्थाधिगमगम्य इति । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 532