________________
शतकं-११, वर्गः-, उद्देशकः - १
नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः
५ भगवती अङ्गसूत्रं (२)
सटीकं
( अपरनाम - व्याख्या प्रज्ञप्त्यङ्गसूत्रं-सटीकं)
पञ्चम अङ्गसूत्रं (भाग - २)
(मूलम् + अभयदेवसूरिविरचिता वृत्तिः) शतकं - ११
वृ. व्याख्यातं दशमं शतं, अथैकादशं व्याख्यायते, अस्य चायमभिसम्बन्धःअनन्तरशतस्यान्तेऽन्तरद्वीपा उक्तास्ते च वनस्पतिबहुला इति वनस्पतिविशेषप्रभृतिपदार्थः स्वरूपप्रतिपादनायैकादशं शतं भवतीत्येवंसम्बद्धस्यास्योद्देशकार्थः सङ्ग्रहगाथामू. (४९४)उप्पल १ सालु २ पलासे ३ कुंभी ४ नाली य ५ पउम ६ कन्नी ७ य । नलिनसिव ९ लोग १० काला ११ लंभिय १२ दस दोय एक्कारे ॥
वृ. 'उप्पले’त्यादि, उत्पलार्थः प्रथमोद्देशकः १ 'सालु' त्ति शालूकं - उत्पलकन्दस्तदर्थो द्वितीयः २ ‘पलासे’त्ति पलाशः - किंशुकस्तदर्थः स्तृतीयः ३ 'कुंभी 'ति वनस्पतिविशेषस्तदर्थःश्चतुर्थः ४ नाडीवद्यस्य फलानि स नाडीको - वनस्पतिविशेष एव तदर्थः पञ्चमः ५ 'पउम 'त्ति पद्मार्थः षष्ठः ६ 'कन्नीय'त्ति कर्णिकार्थः सप्तमः ७ 'नलिण' त्ति नलिनार्थोऽष्टमः ८ यद्यपि चोत्पलपद्मनलिनानां नामकोशे एकार्थः तोच्यते तथाऽपीह रूढेर्विशेषोऽवसेयः, 'सिव' त्ति शिवराजर्षिवक्तव्यतार्थो नवमः ९ 'लोग' त्ति लोकार्थो दशमः १० 'कालालभिए 'त्ति कालार्थः एकादशः ११ आलभिकायां नगर्यां यत्प्ररूपितं तत्प्रतिपादक उद्देशकोऽप्यालभिक इत्युच्यते ततोऽसौ द्वादश १२, 'दस दो य एक्कारि ति द्वादशोद्देशका एकादशे शते भवन्तीति । तत्र प्रथमोद्देशकद्वारसङ्ग्रहगाथा वाचनान्तरे टास्ताश्चेमाः
मू. (४९५) उववाओ १ परिमाणं २ अहवारु ३ चत्त ४ बंध ५ वेदे ६ य । उदए ७ उदीरणाए ८ लेसा ९ दिट्ठी १० य नाणे ११ य ॥
५
मू. (४९६) जोगु १२ वओगे १३ वन्न १४ रसमाई १५ ऊसासंगे १६ य आहारे १७ । विरई १८ किरिया १९ बंधे २० सन्न २१ कसायि २२ त्थि २३ बंधे २४ य ॥ मू. (४९७)सन्निं २५ दिय २६ अणुबंधे २७ संवेहा २८ हार २९ ठिइ ३० समुग्धाए ३१ । चयणं ३२ मूलादीसु य उववाओ ३३ सव्वजीवाणं ॥
वृ. 'उववाओ' इत्यादि, एतासां चार्थः उद्देशकार्थाधिगमगम्य इति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org