Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2 Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 8
________________ २४८ on अनुयोगद्वार-चूलिकासूत्रं तत्परिज्ञाने च सकलजिनवचनानुयोगकरणे कुशलतामासादयति, तत्कुशलतायां च विप्रहाय हेयानुपादाय उपादेयान् संप्राप्य प्रकर्षवच्चरणकरणं कृत्वाऽतिदुष्करतपश्चरणं अनुभूय विशदकेवलालोकतः सकलत्रिलोकीतलसाक्षात्करणं प्रविश्य सकलकर्मविच्छेदकर्तृ शैलेशीकरणं सकलमुक्तजनशरणं परमपदमधिगच्छतीति। ... सम्बन्धोऽप्युपायोपेयलक्षणो गम्यत एव, वचनरूपापत्रं हि शास्त्रमिदमुपायस्तदर्थस्तूपेय इति । एवं च समस्तशास्त्रकारणां समयः परिपालितो भवति, उक्तं च तै: "संबंधभिधेयपओयणाई तह मंगलं च सत्थम्मि। सीसपवित्तिनिमित्तं निविग्घत्थं च चिंति रजा ।" इत्यलं विस्तरेण। मू. ( २ )तत्थ चत्तारि नाणाइं टप्पाइंठवणिज्जाइं नो उद्दिसंति नो समुद्दिति नो अणुनविति. सुयनाणस्स उद्देसो समुद्देसो अनुन्ना अनुभोगो य पवत्तइ वृ. यदि नाम ज्ञानं पञ्चविधं प्रज्ञप्तं ततः किमित्याह-'तत्थे'त्यादि, 'तत्र तस्मिन् ज्ञानपञ्चके आभिनिबोधिकावधिमनःपर्यायकेवलाख्यानि चत्वारि ज्ञानानि 'ठप्पाइंति स्थाप्यानिअसंव्यवहार्याणि, व्यवहारनयोहियदेव लोकस्योपकारे वर्तते तदेव संव्यवहार्य मन्यते, लोकस्य च हेयोपादेयेष्वर्थेषु निवृत्तिप्रवृत्तिद्वारेण प्रायः श्रुतमेव साक्षादत्यन्तोपकारि, यद्यपि केवलादिदृष्टमर्थं श्रुतभिधत्ते तथापि गौणवृत्त्या तानि लोकोपकारीणिति भावः।। यद्युक्तन्यायेनासंव्यवहार्याणि तानि ततः किमित्याह-'ठवणिज्जाई'ति ततः स्थापनीयानि एतानि, तथाविधोपकाराभावतोऽसंव्यवहार्यत्वात्तिष्ठन्तु, न तैरिहोद्देशसमुद्देशाद्यवसरेऽधिकार इत्यर्थः, अथवा स्थाप्यानि-अमुखराणि स्वस्वरूपप्रतिपादनेऽप्यसमर्थानि, न हि शब्दमन्तरेण स्वस्वरूपमपि केवलादीनी प्रतिपादयितुं समर्थानि, शब्दश्चानन्तरमेव श्रुतत्वेनोक्त इति स्वपरस्वरूपप्रतिपादने श्रुतमेव समर्थ, स्वरूपकथनं चेदमतः स्थाप्यानि, अमुखराणि यानि चत्वारि ज्ञानानि तानीहानुयोगद्वारविचारप्रक्रमे किमित्याह-अमुपयोगित्वात् स्थापनीययानि, अनधिकृतानि, यत्रैव ादेशसमुद्देशानुज्ञानदयः क्रियन्ते तत्रैवानुयोगः तदद्वाराणि चोपक्रमादीनि प्रवर्त्तन्ते, एवंभूतं त्वाचारादि श्रुतज्ञानमेव इत्यत उद्देशाद्यविषयत्वादनुयोगीनि शेषज्ञानानि, इत्यतोऽत्रानधिकृतानि। ___ अत्राह-अनुयोगो व्याख्यानं, तच्च शेषज्ञानचतुष्टयस्यापि प्रवर्त्तत एवेति कथमनुपयोगित्वं?, ननु समयचर्यानिभज्ञतासूचकमेवेदं वचो, यतो हन्त तत्रापि तद्ज्ञानप्रतिपादकसूत्रसंदर्भ एव व्याख्यायते, स च श्रुतमेवेति श्रुतस्यैवानुयोगप्रवृत्तिरिति।। ___ अथवा स्थाप्यानि-गुर्वनधीनत्वेनोद्देशाद्यविषयभृतानि, एतदेव विवृणोति-स्थापनीयानीति, एकार्थों द्वावपि, इदमुक्तं भवति, अनेकार्थत्वादतिगम्भीरत्वाद्विविधमन्त्राद्यतिशयसम्पन्नवाच्च प्रायो गुरूपदेशापेक्षं श्रुतज्ञानं, तच्च गुरोरन्तिके गृह्यमाणं परमकल्याणकोशत्वादुद्देशादिविधिना गृह्यत इति तस्योद्देशादयः प्रवर्त्तन्ते, शेषाणि तु चत्वारिज्ञानानि तदावरणकर्मक्षयक्षयोपशमाभ्यां स्वत एव जायमानानि नोद्देशादिप्रक्रममपेक्षन्ते। यतश्चैवमत आह-'नो उद्दिसिज्जंति'त्यादि नो उद्दिश्यन्ते नो समुद्दिश्यन्ते नो अनुज्ञायन्ते, Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 257