Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2 Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 6
________________ अनुयोगद्वार-चूलिकासूत्रं नमो नमो निम्मल देसणस्स पंचम गणधर श्री सुधर्मा स्वामिने नमः अनुयोगद्वारसूत्रम् सटीकं द्वितीयं चूलिका सूत्रं (मूलम् + मल्लधारीय हेमचन्द्रसूरिविरचितावृत्तिः) वृ. ऐं नमः । श्रीवीतरागाय नमः। सम्यक्सुरेन्द्रकृतसंस्तुतपादपद्म-मुझमकामकरिराजकठोरसिंहम्। सद्धर्मदेशकवरं वरदं नतोऽस्मि, वीरं विशुद्धतरबोधनिधिं सुधीरम् ।।१।। अनुयोगभृतां पादान् वन्दे श्रीगौतमादिसूरीणाम् । निष्कारणबन्धूनां विशेषतो धर्मदातृणाम्॥२॥ यस्याः प्रसादमतुलं संप्राप्य भवन्ति भव्यजननिवहाः। __ अनुयोगवेदनिस्तां प्रयत: श्रुतवेदतां वन्दे ||३|| इहातिगम्भीरमहानीरधिमध्यनिपतितान_रत्नमिवातिदुर्लभं प्राप्य मानुषं जन्म ततोऽपि लब्ध्वा त्रिभुवनैकहितश्रीमञ्जिनप्रणीतबोधिलाभं समासाद्य विरत्यनुगुणपरिणाम प्रतिपद्य चरणधर्ममधीत्य विधिवत् सूत्रं समधिगम्य तत्परमार्थं विज्ञाय स्वपरसमयरहस्यं तथाविधकर्मक्षयोपशमसंभविनी चावाप्य विशदप्रज्ञां जिनवचनानुयोगकरणे यतितव्यं तस्यैव सकलमनोऽभिलषितार्थसार्थसंसाधकत्वेन यथोक्तसमग्रसामग्रीफलत्वात्। च चानुयोगो यद्यप्यनेकग्रन्थविषयः संभवति, तथापि प्रतिशास्त्र प्रत्यध्ययनं प्रत्येद्देशकं प्रतिवाक्यं प्रतिपदं चोपकारित्वात्प्रथममनुयोगद्वारणामसौ विधेयः । जिनवचने ह्याचारादि श्रुतं प्रायः सर्वमप्युपक्रमनिक्षेपानुगमनयद्वारैर्विचार्यते, प्रस्तुतशास्त्रे च तान्येवोपक्रमादिद्वाराण्यभिधास्यन्ते, अतोऽस्यानुयोगकरणे वस्तुतो जिनवचनस्य सर्वस्याप्यसौ कृतो भवतीत्यतिशयोपकारित्वात्प्रकृतशास्त्रस्यैव प्रथममनुयोगो विधेयः । ___ स च यद्यपि चूर्णिटीकाद्वारेण वृद्धैरपि विहितः तथापि तद्वचसामतिगम्भीरत्वेन दुरधिगमत्वाद् मन्दमतिनाऽपि मयाऽसाधारणश्रुतभक्तिजनितौतुसुक्यभावतोऽविचारितस्वशक्तित्वादल्पधियामनुग्रहार्थत्वाच्च कर्तुमारभ्यते॥ मू. (१) नाणं पंचविहं पन्नत्तं, तंजहा-आभिनिबोहियनाणं सुयनाणं ओहिनाणं मनपज्जवनाणं केवलनाणं॥ वृ.अस्य च शास्त्रस्य परमपदप्राप्तिहेतुत्वेन श्रेयोभूतत्वात् संभाव्यमानविघ्नत्वात् तदुपशमार्थ शिष्टसमयपरिपालनार्थं चादौ मंगलरूपं सूत्रमाह-'नाणं पञ्चविहं' इत्यादि, व्याख्या-ज्ञातिर्ज्ञानं Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 257