Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
मूलं-२
२५१ यथासन्निहितसाधुभिः, सह तस्मै वन्दनकं ददाति, ततो विनेयो नियद्यास्थित एव 'नाणं पंचविहं पत्रत्त' मित्यादिसूत्रमुच्चार्य यथाशक्ति व्याख्यानं करोति, तदन्ते च साधवो वन्दनकं ददति, ततः शिष्यो निषद्यातः उत्तिष्ठति, गुरुरेव पुनस्तत्र निपीदति, ततो द्वावप्यनुयोगाविसर्गा) कालप्रतिक्रमणार्थं च प्रत्येकं कायोत्सर्ग करुतः ततः शिष्यो निरुद्धं प्रवेदयते निरुद्धं करोतीत्यर्थः ।
एवं श्रुतस्यैव उद्देशादयः प्रवर्तन्ते, न शेषज्ञानानाम्, अत्र चानुयोगेनैवाधिकारो न शेपैः, अनुयोगद्वारविचारस्यैवेह प्रकान्तत्वाद् ।।
मू.(३) जइ सुयनाणस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तइ, किं अंगपविट्ठस्स उद्देसो समुद्देसो अणुत्रा अनुओगो य पवत्तइ ?, किं अंगबाहिरस्स उद्देसो समुद्देसो अणुना अनुओगो य पवत्तइ?, अंगपविट्ठस्सवि उद्देसो जाव पवत्तइ, अनंगपविट्ठस्सवि उद्देसो जाव पवत्तइ, इमं पुण पट्ठवणं पडुच्च अनंगपविट्ठस्स अनुओगो॥
वृ. अत्र यथाभिहितमुपजीव्याह शिष्यो-'यदी'त्यादि, ययुक्तक्रमेण श्रुतज्ञानस्योद्देश: समुद्देशोऽनुज्ञा अनुयोगश्च प्रवर्त्तते, तहि किमसावङ्गप्रविष्टस्य प्रवर्तते, उताङ्गबाह्यस्येति । तत्राङ्गेषु प्रविष्टम्-अन्तर्गतमङ्गप्रविष्टं श्रुतम्-आचारादि, तद्बाह्यं तु उत्तराध्ययनादि, अत्र गुरुनिर्वचनमाह-'अंगपविट्ठस्सवि'त्यादि अपिशब्दौ परस्परसमुच्चायार्थों, अङ्गप्रविष्टस्याप्युद्देशादि प्रवर्तते, अङ्गाद्वाह्यस्यापि, 'इदं पुनः' प्रस्तुतं 'प्रस्थापन' प्रारम्भं प्रतीत्य' आश्रित्याङ्गबाह्यस्य प्रवर्तते नेतरस्य, आवश्यकं ह्यत्र व्याख्यास्यते, तच्चाङ्गबाह्यमेवेति भावः ।।।
मू. (४) जइ अनंगपविद्धस्स अनुओगो, किं कालिअस्स अनुओगो ? उकालिअस्स अनुओगाो ?, कालिअस्सवि अनुओगो उक्कालिअस्सवि अनुओगो, इमं पुन पट्ठवणं पडुच्च उकालिअस्स अनुओगो।
वृ.अत्राङ्गबाह्यस्येति सामान्योक्तौ सत्यां संशयानो विनेय आह-'जइ अंगबाहिरस्से'त्यादि, यद्यङ्गबाह्यस्योद्देशादिः किमसौ कालिकस्य प्रवर्तते उत्कालिकस्य वा? द्विधाऽप्यङ्गबाह्यस्य संभवादितिभावः, तत्र दिवसनिशाप्रथमचरमपौरुषीलक्षणे कालेऽधीयते नान्यत्रेति कालिकम्उत्तराध्ययनादि, यत्तु कालवेलामात्रवण शेषकालानियमेन पठ्यते तदूत्कालिकम्-आवश्यकादि।अत्र गुरु: प्रतिवचनमाह-'कालियस्सवी'त्यादि, कालिकस्याप्यसौ प्रवर्तते, उत्कालिस्यापि, इदं पुन: प्रस्तुतं प्रस्थापनं-प्रारम्भं प्रतीत्य उत्कालिकस्यासौ मन्तव्यः, आवश्यकमेव ह्यत्र व्याख्यास्यते, तच्चोत्कालिकमेवेति हृदयम्॥
उत्कालिकस्येति सामान्यवचने विशेषजिज्ञासुः पृच्छतिमू.(५) जइ उकालिअस्स अनुओगो किं आवस्सगस्स अनुओगो? आवस्सगवतिरित्तस्स अनुओगो?, आवस्सगस्सवि अनुओगो आवस्सगवतिरित्तस्सवि अनुओगो इमं पुन पट्ठवणं पडुच्च आवस्सगस्स अनुओगो।।
वृ. यद्युत्कालिकस्योद्देशादिस्तत्किमावश्यकस्यायं प्रवर्तते यद्वाऽऽवश्यकव्यतिरिक्तस्य?, उभयथाऽप्युत्कालिकस्य सम्भवादिति परमार्थः । तत्र श्रमणैः श्रावकैश्चयोभयसन्ध्यमवश्यकरणादावश्यक-सामायिकादिषडध्ययनकलापः, तस्मात्तु व्यतिरिक्तं-भिन्न दशवैकालि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 257