Book Title: Agam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
मूलं - १
'कृत्यल्युटो बहुलं' इति वचनात् भावसाधनः, ज्ञायते परिच्छिद्यते वस्त्वनेनास्मादस्मिन्वेति वा ज्ञानं जानाति - स्वविषयं परिच्छिनत्तीति वा ज्ञानंज्ञानावरणकर्म्मक्षयोपशमक्षयजन्यो जीवस्वतत्त्वभूतो बोध इत्यर्थः, 'पञ्चविहं' ति पञ्चेति-सङ्ख्यावचनो विधानानि विधा: - भेदाः पञ्चविधा अस्येति पञ्चप्रकारमित्यर्थः, 'पन्नत्तं ति प्रज्ञप्तमर्थतस्तीर्थकरो: सूत्रतो गणधरैः प्ररूपितमित्यर्थः, अनेन सूत्रकृता आत्मनः स्वमनीषिका परिहृता भवति, अथवा प्राज्ञात् तीर्थकरादाप्तं प्राप्तं गणधरैरिती प्राज्ञाप्तम्, अथवा प्राज्ञैः - गणधरैस्तीर्थकरादात्तं गृहीतमिति प्राज्ञात्तं, प्रज्ञया वा भव्यजन्तुभिराप्तं प्राप्तं प्रज्ञासं, न हि प्रज्ञाविकलैरिदमवाप्यत इति प्रतीतमेव, ह्रस्वत्वं सर्वत्र प्राकृतत्वादित्यक्यवार्थ:, अक्षरयोजना त्वेत्रम्-ज्ञानं परमगुरुभिः प्रज्ञसमिति सम्बन्धः, कतिविधमीति, अत्रोच्यते, पञ्चविधमिति ।
-
-
तस्यैव पञ्चविधत्वस्योपदर्शनार्थमाह- 'तंजहे 'त्यादि, तद्यथेत्पुपन्यासार्थः, आभिनिबोधिकज्ञानं श्रुतज्ञानम् अवधिज्ञानं मनः पर्यायज्ञानं केवलज्ञानं चेति । तत्र अभीत्याभिमुखे नीति नैयत्ये, ततश्चाभिमुखो वस्तुयोग्यदेशावस्थानापेक्षी नियत- इन्द्रियाण्याश्रित्य स्वस्वविषयपेक्षी बोधः अभिनिबोध इती भावसाधनः, स्वार्थिकतद्धितोत्पादात्स एवाभिनिबोधिकम्, अभिनिबुध्यते आत्मना स इत्यभिनिबोध कर्म्मसाधनो वा, अभिनिबुध्यते वस्त्वसावित्यभिनिबोध इति कर्तृसाधनो वा, स एवाभिनिबांधिकमिति तथैय, आभिनिबोधकं च तद् ज्ञानं चाभिनिबोधिकज्ञानम्-इन्द्रियपञ्चकमनोनिमित्तो बोध इत्यर्थः ।
२४७
-
श्रवणं श्रुतम् अभिलापप्लावितार्थग्रहणस्वरूप उपलब्धिविशेषः, श्रुतं च तद् ज्ञानं च श्रुतज्ञानम्, अथवा श्रूयति इति श्रुतं शब्दः स चासौ कारणे कार्योपचाराद् ज्ञानं च श्रुतज्ञानं, शब्दो हि श्रोतुः साभिलापज्ञानस्य कारणं भवतीति सोऽपि श्रुतज्ञानमुच्यते । अवधानमवधि:इन्द्रियाद्यनपेक्षमात्मनः साक्षादर्थग्रहणम्, अवधिरेव ज्ञानमवधिज्ञानम् ।
अथवा अवधि:-मर्यादा तेनावधिना-रूपिद्रव्यमर्यादात्मकेन ज्ञानमवधिज्ञानं ।
संज्ञिभिर्जीवै: काययोगेन मनोवर्गणाभ्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमितानि द्रव्याणि मनांसीत्युच्यन्ते तेषां मनसां पर्यायाः- चिन्तनानुगुणा: परिणामास्तेषु ज्ञानं मनः पर्याय-ज्ञानम्, अथवा यथोक्तस्वरूपाणि मनांसि पर्येति- अवगच्छतीति मन: पर्यायमिति कर्म्मण्यण् तच्च तद् ज्ञानं च मन: पर्यायज्ञानं ।
-
केवलं संपूर्णज्ञेयविषयत्वात् संपूर्ण तच्च तद् ज्ञानं च केवलज्ञानमिति ।
अवग्रहादिभेदचिन्ता त्वेतेषां ज्ञानानामत्र न क्रियते, सूत्रेऽनुक्तत्वेनाप्रस्तुतत्वात् नन्द्यादिषु विस्तरेणोक्तत्वाच्चेति । अनेन च शास्त्रस्यादावेव ज्ञानपञ्चकोत्कीर्त्तनेन मङ्गलं कृतं भवति, सकलक्लेशविच्छेदहेतुत्वेन ज्ञानस्य परममङ्गलत्वात् । अभिधेयं तु गुणनिष्पन्नानुयोगद्वारलक्षणशास्त्रनामत एव सकाशात्प्रतीयते, उपक्रमाद्यनुयोगाद्वाराणामेवेहाभिधास्यामानत्वात् ।
प्रयोजनं तु प्रकरणकर्तु श्रोत्रोः प्रत्येकमनन्तरपरम्भरभेदाचिन्तनीयं तत्र प्रकरणकर्तुरनन्तरं सत्त्वानुग्रहः प्रयोजनं श्रोतुश्चप्रकरणार्थपरिज्ञानं, परम्परं तु द्वयोरपि परमपदप्राप्तिः, इदं तु यद्यपीह साक्षान्नोक्तं तथापि सामर्थ्यादवसीयते, तथाहि सत्त्वानुग्रहप्रवृत्ता एवं परमगुरव इदमुपदिशन्ति, तदनुग्रहे च क्रमेण परमपदप्राप्तिः प्रतीतैव, श्रोताऽपि गुरुभ्यः प्रस्तुतप्रकरणार्थ विजानाति,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 257