Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 5
________________ व्यवहार - छेदसूत्रम्-१मवबुध्यते, अथचाऽवश्यमावत्यांभोत्स्यते, संभावनाभाविनिबंधनत्वाद, भव्यशरीरुद्रव्योपक्रमः ज्ञशरीर भव्यशरीर व्यतिरिक्त स्त्रिविधः सचित्ताचित्तमिश्रभेदात् । तत्र सचित्तद्रव्योपक्रमो द्विपद चतुः पदापदोपाधिभेदभिन्नः पुनरेकैको द्विविधः परिकर्मणि वस्तुविनाशेच, तत्रद्रव्यस्य गुणविशेषपरिणामकरणंपरिकर्म, तस्मिन्सचित्रद्विपदद्रव्योपक्रमोयथा पुरुषस्यवर्णादिकरण, सचित्रचतुष्पदद्रव्योपक्रमोयथाहम्त्यादेः शिक्षाद्यापादनं, सचित्तापदद्रव्योपक्रमोयथा वृक्षादे वृक्षायुर्वेदोपदेशाद् वृद्धादि गुणकरणं वस्तुविनाशे पुरुषादीनां खङ्गादिभिर्विनाशकरणं, अचितद्रव्योपक्रमः परिकर्मणि यथा पद्मरागमणेः क्षारमृत्पुटकादिना नैर्मल्यापादनं; वस्तुविनाशे विनाशकरणं. मिश्रद्रव्योपक्रमः परिकर्मणि कटकादिभूषितपुरुषादि द्रव्यस्यगुणविशेषकरणं, वस्तुविनाशे विवक्षितपर्यायोच्छेदः क्षेत्रमाकाशंतच्चामूर्त, नित्यंचेतिनतस्य परिकर्मलज्ञणोवाउपक्रमो घटते, तत उपचारात् तदाश्रितस्येक्षक्षेत्रादेस्तौ द्रष्टव्यौ; कालस्योपक्रमः परिकर्मणि चन्द्रोपरागादेयथावस्थितमागेवपरिज्ञानकरणं, वस्तुविनाशेविवज्ञितेकालेतदुचितप्रयोजनस्यासंपादनं, तदसंपादने हिसकालो विनाशितोभवति;भावोपक्रमोद्विधाआगमतोनोआगमतच, तत्रागमतउपक्रमशब्दार्थस्य ज्ञाता तत्र चोपयुक्त उपयोगी भावनिक्षेप इति वचनात्, नोआगमतो द्विधा, प्रशस्ताऽप्रशस्तश्च तत्राऽप्रशस्तो गणिकादीनां, गणिकाद्यप्रशस्तेन संसाराभिवर्द्धिना व्यवसायेन परभावमुपक्रान्ति, प्रशस्तं श्रुतादिनिमित्तमाचार्यभावोपक्रमः अनेनेहाधिकारः ।। अथ व्याख्यांगप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकमव्यारव्यांगत्वात्तदसम्यक्, तस्यापि व्याख्यांगत्वात् उक्तंच-गुर्वायत्ता यस्मात् शास्त्रारंभा भवंति, सर्वेपि तस्माद्गुर्वाराधनपरेण हितकांक्षिणाभाव्यं । आवश्यकभाष्यकारेणाप्यभ्यधायि। ||१|| गुरुचितायत्ताई वक्खाणंगाईंजेन सव्वाई ।। जेनपुनसुप्पसन्नं,होइतयंतंतहा कज्जं ।। ।।२।। आगारिंगियकुसलं,जइसेयं वायसंवएपुज्जा । तह वियसिंन विकूडे विरहमियकारणंपुच्छे ।। वृ- आह यद्येवं गुरुभावोपक्रम एव भणनीयो. न शेषा निःप्रयोजनत्वात् न गुरुचित्तप्रसादनार्थ तेषामप्युपयोगित्वात्तथाचदेशकालावपेक्ष्यपरिकर्मविनाशौ द्रव्याणमुदकोदनादीनामाहारादिकार्येषु कुर्वनंतेवासी हरति गुरुणां चेतः, अथवा उपक्रमसामान्यात् ये केचन संभविन उपक्रमभेदास्ते सर्वेप्युक्ताः; येनानुपयोगिव्युदासेनोपयोगिनिष्प्रतिपज्ञाप्रतिपत्तिरुपजायतेतथाचाप्रस्तुतार्थापाकरणं प्रस्तुतार्थव्याकरणंच,नामादिन्यासव्याख्यायाः फलमुपवर्णयन्तिमहाधियः; अप्रस्तुतार्थापाकरणात प्रस्तुतार्थव्याकरणाचनिक्षेपःसमवतारइतितत्रानुपूर्वीनामस्थापनाद्रव्यज्ञेत्रकालगणनोत्कर्त्तिनसंस्थान सामाचारीभावभेदभिन्ना दशप्रकारा तस्यां यथा संभवमवतारणीयमिदमध्ययनं, विशेषतस्तूत्कीर्तनानुपुर्व्या गणानुपूर्व्या च, उत्कीर्तना नाम संशब्दना यथा कल्पाध्ययनं व्यवहारध्ययनमिति, गणनं परिसंख्यानमेकं द्वे त्रीणि इत्यादि, साच गणनानुपूर्वी त्रिप्रकारा पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी च तत्रपूर्वानुपूामिदंद्वितीयंपश्चादानुपूव्यां प्रथम,द्वयोस्त्वऽनानुपूर्वीनास्ति, अपरेतुदशभिर्दशाध्ययनैः सहेदंगणयंति,तत्रपूर्वानुपूर्व्यामिदंद्वादशं, पश्चादानुपूर्त्यांप्रथममनानुपूमिकादयोद्वादशपर्यंताअंकाः श्रेण्यांव्यवस्थाप्यन्ते, तेषामू च परस्परमभ्यासे यावान् राशिः संपद्यते तावंतो द्विरुपोना भंगकाः तेच Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 1046