Book Title: Agam Sutra Satik 36 Vyavahar ChhedSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पीटिका - [भा. ३९ ] [ भा. ३९ ]
१९
पडि सेवा उभावो सी पुन कुसलो य होजकुसली वा । कुसलेण होइ कप्पी, अकुसलपरिणामती दप्पां ॥
वृ- प्रतिपंवणा द्विविधा द्रव्यरुपा भावरुपाच प्रतिपेवणक्रियायाः कर्त्तुकर्म्मगतत्वात् तत्र चातस्य तस्य वस्तुनः प्रतिषेव्य मानता सा द्रव्यरुपा प्रतिषेवणा, यस्तु जीवस्य तथा प्रतिषेवकत्वपरिणामः, सा भावरुपा प्रतिषेवणा सैव चेहर्गह्या, जीवपरिणामानुरूपतः प्रायश्चित्तविधिप्रवृत्तः, तथा चाह पडिसंबणा उभावो प्रतिषेवणा नाम तुस्वकारार्थो भिन्नक्रमश्च, भाव एव जीवस्याध्यवसाय एव नान्य, सच भावी द्विधा कुशलोऽकुशलच, तत्र कुशली ज्ञानादिरूपोऽकुशलोऽविरत्यादिरूपः, तत्र या कुशलेन परिणामेन बाह्यवस्तुप्रतिसेवनासा कल्पः पदैकदेशी पदसमुदायोपचारात कल्प्यः प्रतिपेवणा कल्पिका इतिभावः, या पुनरकुशलपरिणामतः प्रतिषेवणा सा दर्पः, दर्प प्रतिषेवणा दपिका इत्यर्थः, आह किमेषां त्रयाणामपि परस्परमेकत्वं नानात्वं, वा उच्यते, उभयमपि, कथमित्यत आहनाणी न विणा नाणं नेयं पुनते सणन्नमन्नंच । इय दोणमनाणत्तं भइयं पुनसेवियव्वेण ।।
[ भा. ४० ]
-
वृ-यथा ज्ञानं विना अंतरण ज्ञानी न भवति, ज्ञानपरिणामपरिणततयैव ज्ञानित्वव्यपदेशभावादिति तयोर्ज्ञानज्ञानिनोरेकत्वं, इह दोण्हमनाणतंति इति एवं ज्ञानिज्ञानगतेन प्रकारेण द्वयोः प्रतिसेवकप्रतिसेवनथोरनानात्वमेकत्वं, प्रतिषेवनामंतरेणप्रतिषेवकस्याप्यभावात्, प्रतिसेवनापरिणामपरिणतावेव प्रतिसेवकत्वव्यपदेशप्रवृत्तेः, नेवं पुनं तेसणन्न मन्नं च इति, पुनः शब्दी विशेषद्योतने स चामुं विशेष द्योतयति, न ज्ञानज्ञानिनोः परस्परमविज्ञेयेनापिसहाय एकत्वं किंतु ज्ञेयं तर्योज्ञानज्ञानिनोरनन्यत् अन्यच्च, किमुक्तं भवति ज्ञानिनोज्ञानाच्च ज्ञेयं किंचिदन्यत् किंचिदनन्यत् तथाहि यदा ज्ञानी आत्मालंबनज्ञानपरिणामपरिणतस्तदा ज्ञानज्ञानिनोरेकत्वं यदात्वात्मव्यतिरिक्त-घटाद्यालंबनज्ञानपरिणामपरिणतस्तदा न्यत्वमात्मनां घटादीनामन्यत्वात् ज्ञानमपि यदाभिनिबोधिकादिस्वरुपालंबनं तदा ज्ञानज्ञेययोरेकत्वं, यदा तु स्वव्यतिरिक्तघटाद्यालंबनं तदान्यत्वं घटादीनां ज्ञानात् मूर्त्तामूर्त्ततया पृथग्देशादितया च भिन्नत्वात् भइयं पुन सेविचव्वेण अत्रापीतीत्यनुवर्तते इति उक्तेन प्रकारेण प्रतिषेवकप्रतिषेवणीयोरनानात्वं भक्तं विकल्पितं, पुन नानात्वं सेवितव्येन प्रतिषेवितव्येन कदाचिन्नानात्वमित्यर्थः तथाहि यदा प्रतिसेवते, नानात्वं कीटकादिसत्वानां साधीः पृथग्भूतत्वात् प्रतिसेवनात् यदा प्रतिसेवना प्रतिसेवकस्याध्यवसायः स तर्हि यदात्मव्यापादनविपयस्तदा प्रतिसेवनाप्रतिसेवनयोरेकत्वं यदा तु बाह्यस्त्र्यादिप्रतिसेवनाविषयः तदानानात्वं त्र्यादिप्रतिसेवकादन्यत्वात् संप्रति यत्प्राग्मूलोत्तरगुणविषयतया प्रतिसेवनाचा द्वैविध्यमुक्तं तद्विभावयिषुराह । । [भा. ४१] मूलगुणे उत्तरगुणे, दुविहा पडिसेवणा समासेन ।
मूलगुणे पंचविहात पिंडविसोहाझ्या इयरा ।।
बृ- प्रतिसेवना समासेन संक्षेपेण द्विविधा, तद्यथा मूलगुणे मूलगुणविषया उत्तरगुणे उत्तरगुणविषया, तत्र मूलगुण विषया पंचविधा प्राणतिपातमृषावादादत्तादानमैथुनपरिग्रहरुपा इतर उत्तर गुणविपथा पिंडविशुध्यादिविषया अनेकविधा, अत्रादिशब्दात्समित्यादिपरिग्रहः किमुक्तं भवति मुलगुणेषु प्राणातिपातविरत्यादिपु उत्तरगुणेषु पिंडविशुध्यादिषु यथाक्रमं प्रतिसेवना प्राणतिपातादिलक्षणा पंचविधा आधाकर्मोपभोगादिलक्षणा अनेकविधेति, तत्र मूलगुणप्रतिसेवनासंरंभादिभेदर्ताश्चत्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 1046