Book Title: Agam Sutra Satik 05 Bhagavati AngSutra 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 12
________________ शतकं-१, वर्गः-, उद्देशकः-१ 'लोके' मनुष्यलोके न तु गच्छदौ ये सर्वसाधवस्तेभ्यो नम इति । एषां च नमनीयता मोक्षमार्गसाहायककरणेनोपकारित्वात्, आह च - ॥१॥ “असहाए सहायत्तं करेंति मे संयमं करेंतस्स। एएण कारणेणं नमामिऽहं सव्वसाहूणं ।। ननु यद्ययं सक्षेपेणनमस्कारस्तदा सिद्धसाधूनामेव युक्तः, तद्ग्रहणेऽन्येषामप्यर्हदादीनां ग्रहणात्, यतोऽर्हदादयो न साधुत्वंव्यभिचरन्ति, अथ विस्तरेण तदा ऋषभादिव्यक्तिसमुच्चारणतोऽसौ वाच्यः स्यादिति, नैवं । यतोनसाधुमात्रनमस्कारेऽहंदादिनमस्कारफलमवाप्यते, मनुष्यमात्रनमस्कारे राजादिनमस्कारफलवदिति कर्तव्यो विशेषतोऽसौ, प्रतिव्यक्ति तु नासौ वाच्योऽशक्यत्वादेवेति ननु यथाप्रधानन्यानमङ्गीकृत्य सिद्धादिरानुपूर्वीयुक्ताऽत्र, सिद्धानां सर्वथा कृतकृत्यत्वेन सर्वप्रधानत्वात्, नैवम्, अर्हदुपदेशेन सिद्धानांज्ञानमानत्वादहतामेव च तीर्थप्रवर्त्तनेनात्यन्तोपकारित्वादित्यर्हदादिरेवसा, नन्वेवमाचार्यादि प्राप्नोति, क्वचित्काले आचार्येभ्यः सकाशादर्हदादीनां ज्ञायमानत्वात्, अतएव च तेषामेवात्यन्तोपकारित्वात्, नैवम्, आचार्याणामुपदेशदानसामर्थ्यमहुंदुपदेशत एव, नहि स्वतन्त्रा आचार्यादय उपदेशतोऽर्थज्ञापकत्वप्रतिपद्यन्ते, अतोऽर्हन्त एव परमार्थेन सर्वार्थज्ञापकाः। तथा अर्हत्परिषद्रूपा एवाचार्यादयोऽतस्तान् नमस्कृत्यार्हन्नमस्करणमयुक्तम्, उक्तंच॥१॥ “नेय कोइवि परिसाए पणमित्ता पणमए रन्नो"त्ति॥ एवं तावत्परमेष्ठिनो नमस्कृत्याधुनातनजनानां श्रुतज्ञानस्यात्यन्तोपकारित्वात् तस्य च द्रव्यभावश्रुतरूपत्वात् भावश्रुतस्य च द्रव्यश्रुतहेतुकत्वात्सज्ञाऽक्षररूपंद्रव्यश्रुतंनमस्कुर्वन्नाह मू. (२) नंमो बंभीए लिवीए। वृ. लिपि-पुस्तकादावक्षरविन्यासः, सा चाष्टादशप्रकाराऽपि श्रीमन्नाभेयजिनेन स्वसुताया ब्राह्मीनामिकाया दर्शिता ततो ब्राह्मीत्यभिधीयते, आह च - ___“ले हं लिवीविहाणं जिणेण बंभीइ दाहिणकरेणं"। । इत्यतो ब्राह्मीतिस्वरूपविशेषणं लिपेरिति ।। ननुअधिकृतशास्त्रस्यैव मङ्गलत्वात्किं मङ्गलेन ?, अनवस्थादिदोषप्राप्तेः, सत्यं, किन्तु शिष्यमतिमङ्गलपरिग्रहार्थं मङ्गलोपादानं शिष्टसमयपरिपालनाय वेत्युक्तमेवेति, अभिधेयादयः पुनरस्य सामान्येन व्याख्याप्रज्ञप्तिरिति नाम्नैवोक्ता इति ते पुनर्नोच्यन्ते, तत एव श्रोतृप्रवृत्त्यादीष्टफलसिद्धेः । तथाहि-इह भगवताऽर्थव्याख्या अभिधेयतया उक्ताः,तासांच प्रज्ञापना बोधो वाऽनन्त-रफलं, परम्परफलं तु मोक्षः, स चास्याऽऽप्तवचनत्वादेव फलतया सिद्धो, न ह्याप्तः साक्षात् पारम्पर्येण वा यन्नस्त्र मोक्षाङ्गं तत्प्रतिपादयितुमुत्सहे, अनाप्तत्वप्रसङ्गात्, तथाऽयमेव सम्बन्धो यदुतास्य शास्येदं प्रयोजनमिति । तदेवमस्य शास्यैकश्रुतस्कन्धरूपस्य सातिरेकाध्ययनशतस्वभावस्य उद्देशकसहस्री (१००००) प्रमाणस्यषटत्रिंशप्रश्न (३६०००) सहस्रपरिमाणस्यअष्टाशीतिसहस्राधिकलक्षद्वय (२८८०००) प्रमाणपदराशेर्मङ्गलादीन दर्शितानि । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 1096