________________
शतकं-१, वर्गः-, उद्देशकः-१
'लोके' मनुष्यलोके न तु गच्छदौ ये सर्वसाधवस्तेभ्यो नम इति ।
एषां च नमनीयता मोक्षमार्गसाहायककरणेनोपकारित्वात्, आह च - ॥१॥ “असहाए सहायत्तं करेंति मे संयमं करेंतस्स।
एएण कारणेणं नमामिऽहं सव्वसाहूणं ।। ननु यद्ययं सक्षेपेणनमस्कारस्तदा सिद्धसाधूनामेव युक्तः, तद्ग्रहणेऽन्येषामप्यर्हदादीनां ग्रहणात्, यतोऽर्हदादयो न साधुत्वंव्यभिचरन्ति, अथ विस्तरेण तदा ऋषभादिव्यक्तिसमुच्चारणतोऽसौ वाच्यः स्यादिति, नैवं ।
यतोनसाधुमात्रनमस्कारेऽहंदादिनमस्कारफलमवाप्यते, मनुष्यमात्रनमस्कारे राजादिनमस्कारफलवदिति कर्तव्यो विशेषतोऽसौ, प्रतिव्यक्ति तु नासौ वाच्योऽशक्यत्वादेवेति
ननु यथाप्रधानन्यानमङ्गीकृत्य सिद्धादिरानुपूर्वीयुक्ताऽत्र, सिद्धानां सर्वथा कृतकृत्यत्वेन सर्वप्रधानत्वात्, नैवम्, अर्हदुपदेशेन सिद्धानांज्ञानमानत्वादहतामेव च तीर्थप्रवर्त्तनेनात्यन्तोपकारित्वादित्यर्हदादिरेवसा, नन्वेवमाचार्यादि प्राप्नोति, क्वचित्काले आचार्येभ्यः सकाशादर्हदादीनां ज्ञायमानत्वात्, अतएव च तेषामेवात्यन्तोपकारित्वात्, नैवम्, आचार्याणामुपदेशदानसामर्थ्यमहुंदुपदेशत एव, नहि स्वतन्त्रा आचार्यादय उपदेशतोऽर्थज्ञापकत्वप्रतिपद्यन्ते, अतोऽर्हन्त एव परमार्थेन सर्वार्थज्ञापकाः।
तथा अर्हत्परिषद्रूपा एवाचार्यादयोऽतस्तान् नमस्कृत्यार्हन्नमस्करणमयुक्तम्, उक्तंच॥१॥ “नेय कोइवि परिसाए पणमित्ता पणमए रन्नो"त्ति॥
एवं तावत्परमेष्ठिनो नमस्कृत्याधुनातनजनानां श्रुतज्ञानस्यात्यन्तोपकारित्वात् तस्य च द्रव्यभावश्रुतरूपत्वात् भावश्रुतस्य च द्रव्यश्रुतहेतुकत्वात्सज्ञाऽक्षररूपंद्रव्यश्रुतंनमस्कुर्वन्नाह
मू. (२) नंमो बंभीए लिवीए।
वृ. लिपि-पुस्तकादावक्षरविन्यासः, सा चाष्टादशप्रकाराऽपि श्रीमन्नाभेयजिनेन स्वसुताया ब्राह्मीनामिकाया दर्शिता ततो ब्राह्मीत्यभिधीयते, आह च -
___“ले हं लिवीविहाणं जिणेण बंभीइ दाहिणकरेणं"।
। इत्यतो ब्राह्मीतिस्वरूपविशेषणं लिपेरिति ।। ननुअधिकृतशास्त्रस्यैव मङ्गलत्वात्किं मङ्गलेन ?, अनवस्थादिदोषप्राप्तेः, सत्यं, किन्तु शिष्यमतिमङ्गलपरिग्रहार्थं मङ्गलोपादानं शिष्टसमयपरिपालनाय वेत्युक्तमेवेति, अभिधेयादयः पुनरस्य सामान्येन व्याख्याप्रज्ञप्तिरिति नाम्नैवोक्ता इति ते पुनर्नोच्यन्ते, तत एव श्रोतृप्रवृत्त्यादीष्टफलसिद्धेः । तथाहि-इह भगवताऽर्थव्याख्या अभिधेयतया उक्ताः,तासांच प्रज्ञापना बोधो वाऽनन्त-रफलं, परम्परफलं तु मोक्षः, स चास्याऽऽप्तवचनत्वादेव फलतया सिद्धो, न ह्याप्तः साक्षात् पारम्पर्येण वा यन्नस्त्र मोक्षाङ्गं तत्प्रतिपादयितुमुत्सहे, अनाप्तत्वप्रसङ्गात्, तथाऽयमेव सम्बन्धो यदुतास्य शास्येदं प्रयोजनमिति ।
तदेवमस्य शास्यैकश्रुतस्कन्धरूपस्य सातिरेकाध्ययनशतस्वभावस्य उद्देशकसहस्री (१००००) प्रमाणस्यषटत्रिंशप्रश्न (३६०००) सहस्रपरिमाणस्यअष्टाशीतिसहस्राधिकलक्षद्वय (२८८०००) प्रमाणपदराशेर्मङ्गलादीन दर्शितानि ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org