Book Title: Agam Sutra Satik 05 Bhagavati AngSutra 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 17
________________ भगवती सूत्रं १/-/१/६ 'अप्पडिहयवरनाणदंसणधरे 'त्ति अप्रतिहते- कटकुव्यादिभिररखलिते अविसंवादके वा अत एव क्षायिकत्वाद्वा वरे - प्रधाने ज्ञानदर्शने केवलाख्ये विशेषसामान्यबोधात्मिके धारयति यः स तथा, छद्मवानप्येवंविधसंवेदनसंपदुपेतः कैश्चिदभ्युपगम्यते, स च मिथ्योपदेशित्वान्नोपकारी भवतीति निश्छद्मताप्रतिपादनायाऽस्याह, अथवा कथमस्याप्रतिहतसंवेदनत्वं संपन्नम् ?, अत्रोच्यते, आवरणाभावाद्, एनमेवास्याऽऽवेदयन्नाह - 'वियट्टछउमे' त्ति व्यावृत्तं निवृत्तमपगतं छद्म-शठत्वमावरणं वा यस्यासौ व्यावृत्तछद्मा, छद्माभावाश्चास्य रागादिजयाजात इत्यत आह १४ - 'जिणे' त्ति, जयति-निराकरोति रागद्वेषादिरूपानरातीनिति जनः, रागादिजयश्चास्य रागादिस्वरूपतज्ञ्जयोपायज्ञानपूर्वक एव भवतीत्येतदस्याह 'जाणए 'त्ति, जानाति छाद्मस्थिकज्ञानचतुष्टयेनेति ज्ञायकः, ज्ञायक इत्यनेनास्य स्वार्थसंपत्युपाय उक्तः, अधुना तु स्वार्थसंपत्तिपूर्वकं परार्थसंपादकत्वं विशेषणचतुष्टयेनाह - 'बुद्धे' त्ति, बुद्धी जीवादितत्त्वं बुद्धवान् तथा 'बोहए' त्ति जीवादितत्त्वस्य परेषां बोधयिता ' तथा 'मुत्ते 'ति मुक्तो बाह्याभ्यन्तरग्रन्थिबन्धनेन मुक्तत्वात्, तथा 'मोयए' त्ति परेषां कर्म्मबन्धनाम्नोचयिता । अथ मुक्तावस्थामाश्रित्य विशेषणान्याह - 'सव्वन्नू सव्वदरिसी' ति, सर्वस्य वस्तुस्तोमस्य विशेषरूपतया ज्ञायकत्वेन सर्वज्ञः, सामान्यरूपतया पुनः सर्वदर्शी, न तु मुक्तावस्थायां दर्शनान्तरामिमतपुरुषवद्भविष्यज्जडत्वम्, एतच्च पदद्वयं क्वचिन्न दृश्यति इति, तथा । 'सिवमयल' मित्यादि, तत्र 'शिवं' सर्वाऽऽबाधारहितत्वाद् 'अचलं' स्वाभाविकप्रायोगिकचलनहेत्वमावाद् । - 'अरुजम्' अविद्यमानरोगं तन्निबन्धनशरीरमनसोरभावात् । ‘अनन्तम्' अनन्तार्थविषयज्ञानस्वरूपत्वात् 'अक्षयम्' अनाशंसाद्यपर्यवसितस्थितिकत्वात् अक्षतं वा परिपूर्णत्वापीर्णमासीचन्द्रमण्डलवत् 'अव्याबाधं' परेषामपीडाकारित्वात् 'अपुनरावत्तियं' ति कर्मबीजाभावाद्भवावताररहितं । 'सिद्धिगइनामधेयं' ति सिध्यन्ति निष्ठितार्था भवन्ति तस्यां सा सिद्धि सा चासौ गम्यमानत्वादतिश्च सिद्धिगतिस्तदेव नामधेयं-प्रशस्तं नाम यस्य तत्तथा । 'ठाणं' ति तिष्ठति - अनवस्थाननिबन्धनकर्माभावेन सदाऽवस्थितो भवति यत्र तत्स्थानंक्षीणकर्म्मणो जीवस्य स्वरूपं लोकाग्रं वा, जीवस्वरूपविशेषणानि तु लोकाग्रस्याऽऽधेयधर्माणा - माधारेऽध्यारोपादवसेयानि, तदेवंभूतं स्थानं । 'संपाविउकामे 'त्ति यातुमनाः, न तु तव्याप्तः, तत्प्राप्तस्याकरणत्वेन विवक्षितार्थानां प्ररूपणाऽसम्भवात् प्राप्तुकाम् इति च यदुच्यते तदुपचाराद्, अन्यथा हि निरभिलाषा एव भगवन्तः केवलिनो भवन्ति- 'मोक्षे भवे च सर्वत्र, निस्पृहो मुनिसत्तमः' इति वचनादिति । 'जाव समोसरणं' ति, तावद्भगवद्वर्णको वाच्यो यावत्समवसरणं समवसरणवर्णक इति, सच भगवद्वर्णक एवम्-“भुयमोयगभिंगनेकज्जलपहठ्ठभमरगणनिद्धनिकुरूंबनिचिय-कुंचियपयाहिणावत्तमुद्धसिरए" भुजमोचको रत्नविशेषः भृङ्गः कीटविशेषोऽङ्गारविशेषो वा नैलं-नीलीविकारः कजलं - प्रष्टभ्रमरगणः प्रतीतः एत एव स्निग्धः - कृष्णच्छयो निकुरम्बः-समूहो येषां ते तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 1096