________________
भगवती सूत्रं १/-/१/६
'अप्पडिहयवरनाणदंसणधरे 'त्ति अप्रतिहते- कटकुव्यादिभिररखलिते अविसंवादके वा अत एव क्षायिकत्वाद्वा वरे - प्रधाने ज्ञानदर्शने केवलाख्ये विशेषसामान्यबोधात्मिके धारयति यः स तथा, छद्मवानप्येवंविधसंवेदनसंपदुपेतः कैश्चिदभ्युपगम्यते, स च मिथ्योपदेशित्वान्नोपकारी भवतीति निश्छद्मताप्रतिपादनायाऽस्याह, अथवा कथमस्याप्रतिहतसंवेदनत्वं संपन्नम् ?, अत्रोच्यते, आवरणाभावाद्, एनमेवास्याऽऽवेदयन्नाह -
'वियट्टछउमे' त्ति व्यावृत्तं निवृत्तमपगतं छद्म-शठत्वमावरणं वा यस्यासौ व्यावृत्तछद्मा, छद्माभावाश्चास्य रागादिजयाजात इत्यत आह
१४
-
'जिणे' त्ति, जयति-निराकरोति रागद्वेषादिरूपानरातीनिति जनः, रागादिजयश्चास्य रागादिस्वरूपतज्ञ्जयोपायज्ञानपूर्वक एव भवतीत्येतदस्याह
'जाणए 'त्ति, जानाति छाद्मस्थिकज्ञानचतुष्टयेनेति ज्ञायकः, ज्ञायक इत्यनेनास्य स्वार्थसंपत्युपाय उक्तः, अधुना तु स्वार्थसंपत्तिपूर्वकं परार्थसंपादकत्वं विशेषणचतुष्टयेनाह -
'बुद्धे' त्ति, बुद्धी जीवादितत्त्वं बुद्धवान् तथा 'बोहए' त्ति जीवादितत्त्वस्य परेषां बोधयिता ' तथा 'मुत्ते 'ति मुक्तो बाह्याभ्यन्तरग्रन्थिबन्धनेन मुक्तत्वात्, तथा 'मोयए' त्ति परेषां कर्म्मबन्धनाम्नोचयिता । अथ मुक्तावस्थामाश्रित्य विशेषणान्याह -
'सव्वन्नू सव्वदरिसी' ति, सर्वस्य वस्तुस्तोमस्य विशेषरूपतया ज्ञायकत्वेन सर्वज्ञः, सामान्यरूपतया पुनः सर्वदर्शी, न तु मुक्तावस्थायां दर्शनान्तरामिमतपुरुषवद्भविष्यज्जडत्वम्, एतच्च पदद्वयं क्वचिन्न दृश्यति इति, तथा । 'सिवमयल' मित्यादि, तत्र 'शिवं' सर्वाऽऽबाधारहितत्वाद् 'अचलं' स्वाभाविकप्रायोगिकचलनहेत्वमावाद् ।
-
'अरुजम्' अविद्यमानरोगं तन्निबन्धनशरीरमनसोरभावात् ।
‘अनन्तम्' अनन्तार्थविषयज्ञानस्वरूपत्वात् 'अक्षयम्' अनाशंसाद्यपर्यवसितस्थितिकत्वात् अक्षतं वा परिपूर्णत्वापीर्णमासीचन्द्रमण्डलवत् 'अव्याबाधं' परेषामपीडाकारित्वात् 'अपुनरावत्तियं' ति कर्मबीजाभावाद्भवावताररहितं ।
'सिद्धिगइनामधेयं' ति सिध्यन्ति निष्ठितार्था भवन्ति तस्यां सा सिद्धि सा चासौ गम्यमानत्वादतिश्च सिद्धिगतिस्तदेव नामधेयं-प्रशस्तं नाम यस्य तत्तथा ।
'ठाणं' ति तिष्ठति - अनवस्थाननिबन्धनकर्माभावेन सदाऽवस्थितो भवति यत्र तत्स्थानंक्षीणकर्म्मणो जीवस्य स्वरूपं लोकाग्रं वा, जीवस्वरूपविशेषणानि तु लोकाग्रस्याऽऽधेयधर्माणा - माधारेऽध्यारोपादवसेयानि, तदेवंभूतं स्थानं ।
'संपाविउकामे 'त्ति यातुमनाः, न तु तव्याप्तः, तत्प्राप्तस्याकरणत्वेन विवक्षितार्थानां प्ररूपणाऽसम्भवात् प्राप्तुकाम् इति च यदुच्यते तदुपचाराद्, अन्यथा हि निरभिलाषा एव भगवन्तः केवलिनो भवन्ति- 'मोक्षे भवे च सर्वत्र, निस्पृहो मुनिसत्तमः' इति वचनादिति ।
'जाव समोसरणं' ति, तावद्भगवद्वर्णको वाच्यो यावत्समवसरणं समवसरणवर्णक इति, सच भगवद्वर्णक एवम्-“भुयमोयगभिंगनेकज्जलपहठ्ठभमरगणनिद्धनिकुरूंबनिचिय-कुंचियपयाहिणावत्तमुद्धसिरए" भुजमोचको रत्नविशेषः भृङ्गः कीटविशेषोऽङ्गारविशेषो वा नैलं-नीलीविकारः कजलं - प्रष्टभ्रमरगणः प्रतीतः एत एव स्निग्धः - कृष्णच्छयो निकुरम्बः-समूहो येषां ते तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org