________________
शतक-१, वर्गः-, उद्देशकः-१
१३ 'लोगपईवे'त्ति लोकस्य-विशिष्टतिर्यग्नरामररूपस्याऽऽन्तरतिमिरनिराकरणेन प्रकृष्टप्रकाशकारित्वात्प्रदीप इव प्रदीपः, इदं विशेषणं द्रष्ट लोकमाश्रित्योक्तम्, अथ दृश्यं आमाश्रित्याह ।। लोगपञ्जोयगरे'त्ति, लोकस्य-लोक्यत इति लोकः अनया व्युत्पत्त्या लोकालोकस्वरूपस्य समस्तवस्तुस्तोमस्वभावस्थाखण्डमार्तण्डमण्डलमिव निखिलभावस्वभावावभावससमर्थकेवलालोकपूर्वकप्रवचनप्रभापटलप्रवर्त्तनेन प्रद्योतं-प्रकाशं करोतीत्येवंशीलो लोकप्रद्योतकरः -- उक्तविशेषणोपेतश्च 'मिहिरहरिहरहिरण्यगर्भादिरपि तत्तीर्थिकमतेन भवतीति कोऽस्य विशेष इत्याशङ्कायां तद्विशेषाभिधानायाह-'
_ 'अभयदए'त्ति, न भयं दयते-ददाति प्राणापहरणरसिकेऽप्युपसर्गकारिणि प्राणिनीत्यभयदयः, अभया वा-सर्वप्राणिभयपरिहारवतीदया-अनुकम्पा यस्य सोऽभयदयः, हरिहरमिहिरादयस्तु नैवमितिविशेषः, न केवलमसावपकारिणां तदन्येषां वाऽनर्थपरिहारमात्रं करोति अपि त्वर्थप्राप्तिमपि करोतीति दर्शयन्नाह
'चक्खुदये'त्ति, चक्षुरिव चक्षु-श्रुतज्ञानं शुभाशुभार्थविभागोपदर्शकत्वात्, यदाह॥१॥ “चक्षुष्मन्तस्य एवेह, ये श्रुतज्ञानचक्षुषा ।
सम्यक् सदैव पश्यन्ति, भावान् हेवेतरान्नराः ।। .. तद्दयतइति चक्षुर्दयः, यथाहिलोकेकान्तारगतानांचौरैक्लुिप्तधनानांबद्धचक्षुषांचक्षुरुद्धाटनेन चक्षुर्दत्वा वाञ्छितमार्गदर्शनेनोपकारी भवति, एवमयंमपि संसारारण्यवर्त्तिनां रागादिचौरविलुप्तधर्मधनानां कुवासनाऽऽच्छदितसज्ञानलोचनानांतदपनयनेन श्रुतचक्षुर्दत्त्वा निर्वाणमान्यच्छन्नुपकारीतिदर्शयन्नाह । 'मग्गदए'त्ति,मार्ग-सम्यग्दर्शनज्ञानचारित्रात्मकंपरमपदपुरपथं दयत इति मार्गदयः, यथा हि लोके चक्षुरुद्घाटनं मार्गदर्शनंच कृत्वा चौरादिविलुप्ता निरुपद्रवं स्थान प्रापयन् परमोपकारी भवतीत्येवमयमपीति दर्शयन्नाह -
"सरणदए'त्तिशरणं-त्राणंनानाविधोपद्रवोपद्रुतानांतद्रक्षास्थानं, तच्च परमार्थतो निर्वाणं तयत इति शरणदयः, शरणदायकत्वं चास्य धर्मदेशनयैवेत्यत आह
'धम्मदेसए'त्ति, धर्मं श्रुतचारित्रात्मकं देशयतीतिधर्मदशकः, धम्मदये'त्ति पाठान्तरं, तत्र च धर्म-चारित्ररूपं दयत इति धर्मादयः, यथा रथस्य सारथी रथं रथिकमश्वांश्च रक्षति एवं भगवान् चारित्रधर्माङ्गानां संयमात्मप्रवचनाख्यानां रक्षणोपदेशाद्धर्मसारथिर्भवतीति, तीर्थान्तरीयमतेनान्येऽपि धर्मसारथयः सन्तीति विशेषयन्नाह____'धम्मवरचाउरंतचक्कवट्टी ति, त्रयः समुद्राश्चतुर्थश्च हिमवान्एते चत्वारोऽन्ताः-पृथिव्यान्ताः एतेषु स्वामितया भवतीति चातुरन्तःसचासौ चक्रवर्तीच चातुरन्तचक्रवर्तीवरश्चासौ चातुरन्तचक्रवर्तीच वरचातुरन्तचक्रवर्ती राजातिशयः,धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती, यथा हिपृथिव्यां शेषराजातिशायी वरचातुरन्तवचक्रवर्ती भवति तथा भगवान्धर्मविषये शेषप्रणेतृणां मध्ये सातिशयत्वात्तथोच्यत इति, अथवा धर्म एव वरमितरचक्रापेक्षया कपिलादिधर्मचक्रापेक्षया वा चतुरन्तं-दानादिभेदेन चतुर्विभागं चतसृणां वा नरनारकादिगतीनामन्तकारित्वाच्चतुरन्तं तदे चातुरन्तं यच्चक्रभावारातिच्छेदात् तेन वर्तितुं शीलं यस्य स तथा, एतच्च धर्मदेशक्त्वादिविशेषणकदम्बकं प्रकृष्टज्ञानादियोगे सति भवतीत्याह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org