________________
१२
भगवतीअङ्गसूत्रं १/-19/६ लोगुत्तमे लोगनाहे लोगप्पदीवे लोगपञ्जोयगरे अभयदए चक्खुदए मग्गदए सरणदए धम्मदेसए धम्मसारहीए धम्मवरचाउरंतचक्कवट्टी अप्पडिहयवरनाणदसणधरे वियट्ठछउमे जिणे जाणए बुद्धे बोहए मुत्ते मोयए सळ्नू सव्वदरिसी सिवमयलमरुयमनंतमक्खयमव्वाबाहमपुनरावतयं सिद्धिगइनामधेयं ठाणं संपाविउकामे जाव समोसरणं ।
वृ. 'समणे'त्ति श्रमु तपसि खेदे चेति वचनात् श्राम्यति-तपस्यतीति श्रमणः, अथवा सह शोभनेनमनसावर्तत इति समनाः,शोभनत्वं च मनसो व्याख्यातं स्तवप्रस्तावात्, मनोमात्रसत्त्वस्यास्तवत्वात्, संगतंवा-यथा भवत्येवमणतिभाषतेसमोवा सर्वभूतेषु सन् अणति-अनेकार्थत्वाद्धातूनां प्रवर्तत इति समणो निरुक्तिवशाद् भवति, 'भगवति भगवान्-एश्वर्यादियुक्तः पूज्य इत्यर्थः । 'महावीरे'त्ति वीरः ‘सूर वीर विक्रान्तावि तिवचनात् रिपुनिराकरणतो विक्रान्तः, सचचक्रवत्यादिरपिस्यादतो विशेष्यते-महांश्चासौदुर्जयान्तररिपुतिरस्करणाद्वीरश्चेतिमहावीरः, एतच्च देवैर्भगवतो गौणं नाम कृतं, यदाह-“अयमे भयभेरवाणं खंतिखमे परिसहोवसग्गाणं । देवेहिं (से नाम) कए (समणे भगव) महावीरेत्ति,"।
'आदिकरे'त्तिआदौ-प्रथमतः श्रुतधर्मम्-आचारादिग्रन्थात्मकं करोति-तदर्थप्रणायकत्वेन प्रणयतीत्येवंशील आदिकरः, आदिकरत्वाञ्चसौ किंविधइत्याह-तित्ययरे'त्तितरन्ति तेन संसारसागरमिति तीर्थ-प्रवचनं तदव्यतिरेकाचेह सङ्घस्तीर्थ तत्करणशीलत्वात्तीर्थकरः, तीर्थकरत्वं चास्य नान्योपदेशपूर्वकमित्यत आह
सहसंबुद्धे त्ति, सह-आत्मनैव सार्द्धमनन्योपदेशतइत्यर्थः, सम्यग-यथाववुद्धो-हेयोपादेयोपेक्षणीयवस्तुत्वं विदितवानितिसहसंबुद्धः । सहसंबुद्धत्वंचास्यन प्राकृतस्य सतः, पुरुषोत्तमवादित्यत आह । 'पुरिसोत्तमो'त्ति, पुरुषाणां मध्येतेन तेनरूपादिनाऽतिशयेनोद्गतत्वादूर्ध्ववतित्वादुत्तमः पुरुषोत्तमः, अथ पुरुषोत्तमत्वमेवास्य सिंहाद्युपमानत्रयेण समर्थयत्राह -
'पुरिससीहे'त्ति, सिहंइव सिंहः पुरुषश्चासौसिंहश्चेतिपुरुषसिंहः, लोकेन हि सिंहे शोर्यमतिप्रकृष्टमभ्युपगतमतः शौर्ये स उपमानं कृतः, शौर्यं तु भगवतो बाल्ये प्रत्यनीकदेवेन भाग्यमानस्याप्यभीतत्वात् कुलिशकठिनमुष्टिप्रहारप्रहतिप्रवर्द्धमानारशरीरकुब्जताकरणाच्चेति, तथा
'पुरिसवरपुंडरीए'त्ति, वरुपुण्डरीकं-प्रधानधवलसहपत्रं पुरुष एव वरपुण्डरीकमिवेति पुरुषवरपुण्डरीकं, धवलत्वं चास्य भगवतः सर्वाशुभमलीमसरहितत्वात् सर्वेश्च शुभानुभावैः शुद्धत्वात्, अथवा पुरुषाणां-तत्सेवकजीवानां वरपुण्डरीकमिव-वरच्छत्रमिवयःसन्तापातपनिवारणसमर्थत्वात् भूषाकारणत्वाच्च स पुरुषवरपुण्डरीकमिति, तथा - _ 'पुरिसवरगंधहस्थित्ति पुरुष एव वरगन्धहस्ती पुरुवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनापि समस्तेतरहस्तिनो भज्यन्ते तथा भगवतस्तद्देशविहरणेन ईतिपरचक्रदुर्भिक्षडमरमरकादीनिदुरितानि नश्यन्तीति पुरुषवरगन्धहस्तीत्युच्यत इत्यत उपमात्रयात्पुरुषोत्तमोऽसौ । न चायं पुरुषोत्तम एव, किन्तु?, लोकस्याप्युत्तमो, 'लोकनाथत्वाद्', एतदेवाह
'लोगनाहेत्ति, लोकस्य-सज्ज्ञिभव्यलोकस्य नाथः-प्रभुर्लोकनाथः, नाथत्वं च योगक्षेमकारित्वं, योगक्षेमकृन्नाथ' इति वचनात्, तच्चास्याप्राप्तस्य सम्यग्दर्शनादेर्योगकरणेन लब्धस्य च परिपालनेनेति, लोकनाथत्वं च यथाऽवस्थितसमस्तवस्तुस्तोमप्रदीपनादेवेत्यत आह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org