SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्गः-, उद्देशक:-१ न्यायमाश्रित्यादितः प्रथमोद्देशकार्थप्रपञ्चोवाच्यः, तस्य च गुरुपर्वक्रमलक्षणंसम्बन्धमुपदर्शयन् भगवान् सुधर्मस्वामी जम्बूस्वामिनमाश्रित्येदमाह मू. (५) तेणंकालेणं तेणंसमएणरायगिहे नामंनयरे होत्था, वण्णओ, तस्सणं रायगिहस्स नगरस्स बहिया उत्तरपुरछिमे दिसीभाए गुणसिलए नामंचेइए होत्था, सेणिए राया, चेल्लणा देवी वृ.अथ कथमिदमवसीयते यदुत-सुधर्मस्वामीजम्बूस्वामिनमभि संबन्धग्रन्थमुक्तवान्इति?, उच्यते, सुधर्मस्वामिवाचनायाएवानुवृत्तत्वात्, आहच-"तित्थं च सुहम्माओ निरवच्चा गणहरा सेसा" सुधर्मस्वामिनश्च जम्बूस्वाम्येवप्रधानः शिष्योऽतस्तमाश्रित्येवं वाचना प्रवृत्तेति, तथा षष्ठाङ्गे उपोध्यात एवं दृश्यते-यथा किल सुधर्मस्वामिनं प्रति जम्बूनामा प्राह - __ "जइ णं भंते ! पंचमस्स अंगस्स विवाहपन्नत्तीए समणेणं भगवया महावीरेणं अयमठे पन्नत्ते, छठुस्सणंभंते ! के अढे पन्नत्ते?" त्ति, तत एवमिहापिसुधर्मांव जम्बूनामानं प्रत्युपोदघातमवश्यमभिहितवानित्यवसीयत इति ।अयं चोपोद्घातग्रन्थो मूलटीकाकृता समस्तंशस्त्रमाश्रित्य व्याख्यातोऽप्यस्वाभिः प्रथमोद्देशकमाश्रित्य व्याख्यास्यते, प्रतिशतं प्रत्युद्देशकमुपोदघातस्येह शास्त्रेऽनेकधाऽभिधानादिति, अयंचप्राग्व्याख्यातो नमस्कारादिकोग्रन्थोवृत्तिकृतान व्याख्यातः कुतोऽपि कारणादिति। 'तेणंकालेणं ति, ते इति-प्राकृतशैलीवशात्तमस्मिन्यत्र तन्नगरमासीत्, णंकारोऽन्यत्रापि वाक्यालङ्कारार्थोयथा 'इमाणंभंते! पुढवी त्यादिषु 'काले' अधिकृतावसर्पिणीचतुर्थविभागलक्षण इति, तेणं तितस्मिन् यत्रासौ भगवान् धर्मकथामकरोत् ‘समएणं ति समये-कालस्यैव विशिष्टे विभागे, अथवा तृतीयैवेयं, ततस्तेन कालेन हेतुभूतेन तेन समयेन हेतुभूतेनैव 'रायगिहे'त्ति एकारः प्रथमैकवचनप्रभवः कयरे आगच्छइ दित्तरूवे" इत्यादाविव, ततश्च राजगृहं नाम नगरं 'होत्य'त्ति भवत्। नन्विदानीमपि तन्नगरमस्तीत्यतः कथमुक्तममवदिति ?, उच्यते, वर्णकग्रन्थोक्तविभूतियुक्तंतदैवाभवत्नतु सुधर्मस्वामिनोवाचनादानकाले, अवसर्पिणीत्वात्कालस्य तदीयशुभभावानांहानिभावात्। वन्नओत्तिइहस्थानके नगरवर्णको वाच्यः, ग्रन्थगौरवभयादिहतस्यालिखितत्वात, सचैवम्-रिद्धस्थिमियसमिद्धे" ऋद्धं-पुरभवनादिभिवृद्धं स्तिमितं-स्थिरंस्वचक्रपरचक्रादिभयवर्जितत्वात् समृद्धं-धन धान्यादिविभूतियुक्तत्वात्, ततः पदत्रयस्य कर्मधारयः, पमुइयजणजावए' प्रमुदिताःहृष्टाः प्रमोदकारणवस्तूनां सद्भावाजना-नगरवास्तव्यलोका जानपदाश्चजनपदभवास्तत्रायाताःसन्तोयत्र तत्प्रमुदितजनजानपदमित्यादिरौपपातिकात्सव्याख्यानोऽत्र दृश्यः । तस्सणं'ति षष्ठयाः पञ्चम्यर्थत्वात्तस्माद्राजगृहानगरात् ‘बहिय'त्ति बहिस्तात् 'उत्तरपुरच्छिमे'त्ति उत्तरपौरस्त्ये 'दिसीभाए'त्ति दिशांभागो दिग्रूपोवा भागोगगनमण्डलस्य दिग्भागस्तत्र _ 'गुणसिलकं नाम चेइयं तिचितेर्लेप्यादिचयनस्य भावः कर्मवेति चैत्यं-सज्जाशब्दत्वाद्देवबिम्बं तदाश्रयत्वात्तद्गृहमपि चैत्यं, तच्चेह व्यन्तरायतनं न तु भगवतामर्हतमायतनं 'होस्थ'त्ति बभूव, इह च यन्न व्याख्यास्यते तत्प्रायः सुगमत्वादित्यवसेयमिति । मू. (६) ते णं काले णं तेणं समए णं समणे भगवं महावीरे। आइगरे तित्थगरे सहसंबुद्धे परुसुत्तमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवरगंधहत्थीए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy