________________
शतक-१, वर्ग:-, उद्देशकः-१ तेच ते निचिताश्च-निबिडाः कुञ्चिताश्च-कुण्डलीभूताः प्रदक्षिणावर्ताश्च मूर्द्धति शिरोजा यस्य स तथा, एवं शिरोजवर्णकादि "रतुप्पलपत्तमउयसुकुमालकोमलतले" इति पादतलवरण-कान्तः शरीरवर्णको भागवतो वाच्यः, पादतलविशेषणस्य चायमर्थ-रक्तं-लोहितम् उत्पलपत्रवत्कमलदलवत् मृदुकम्-अस्तब्धं सुकुमालानांमध्ये कोमलंच तलं-पादतलं यस्य स तथा।
तथा-"अट्ठसहस्सवरपुरिसलक्खणधरेआगासगएणंचक्केणंआगासगएणंछत्तेणं आगासगयाहिंचामराहिं आगासफलिहामएणंसपायपीढेणं सीहासणेणं' आकाशस्फटिकम्अतिस्वच्छस्फटिकविशेषस्तन्मयन उपलक्षित इति गम्यं, 'धम्मज्झएणं पउरओ पक्ड्डिजमाणेणं' देवैरिति गम्यते 'चउदसहिं समणसाहससीहिं छत्तीसाए अज्जियासहस्सीहिं सद्धिं संपरिवुडे' साहीशब्दः सहपर्यायः सार्धंसह, तेषांविद्यमानतयाऽपिसार्द्धमिति स्यादत उच्यते-संपरिवृतः-परिकरित इति।
__ 'पुव्वाणुपुट्विं चरमाणे' न पश्चानुपूव्यादिना ‘गामाणुगामं दूइज्जमाणे ग्रामश्च प्रतीतः अनुग्रामश्च तदन्तरं ग्रामो ग्रामानुग्रामंतद् 'द्रवन्' गच्छन् ‘सुहंसुहेणं विहरमाणे जेणेव रायगिहे नगरे जेणेव गुणसिलए चेइए तेणेव उवागच्छइ उवागच्छिता अहापडिरूवं उग्गहं ओगिण्हइ ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइति ।
समवसरणवर्णकोवाच्यः, तथाऽसुरकुमाराः शेषभवनपतयोव्यन्तराज्योतिष्कावैमानिका देवा दिव्य)श्च भगवतः समीपमागच्छन्तो वर्णयितव्याः।
मू. (७) परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया। वृ. "परिसा निग्गय"तिराजगृहाद्राजादिलोको भगवतो वन्दनार्थनिर्गतः, तन्निर्गमश्चैवम्
“तएणंरायगिहेनगरेसिंधाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसुबहुजणोअन्नमन्नस्स एवमाइक्खइ४-एवं खलु देवाणुप्पिया! समणेभगवंमहावीरेइहगुणसिलए चेइए अहापडिरूवं उग्गहंओगिहित्तासंजमेणंतवसाअप्पाणं भावमाणे विहरइ, ते सेयंखलु तहारूवाणंअरहताणं भगवंताणंनामगोयस्सविसवणयाएकिमंगपुणवंदननमंसणयाए? तिकट्ठबहवेउग्गा उग्गपुत्ता" इत्यादिर्वाच्यो यावद्भगवन्तं नमस्यन्ति पर्युपासते चेति, एवं राजनिर्गमोऽन्तःपुरनिर्गमश्च तत्पर्युपासना चौपपातिकवद्वाच्या।
____ 'धम्मो कहिओ'त्ति, धर्मकथेह भगवतो वाच्या, सा चैवं-'तए णं समणे भगवं महावीरे सेणियससरनो चिल्लणापमुहाणयदेवीणंतीसेयमहतिमहालियाएपरिसाएब्वववभासानुगामिणीए सरस्सईए धम्णं परिकहेइ, तंजहा-अस्थिलोए अस्थि अलोए एवं जीवा अजीवा बंधे मोक्खे' इत्यादि । तथा॥१॥ “जह नरगा गम्मंती जे नरया जाय वेयगा नरए।
सारीरमाणसाइंदुक्खाई तिरिक्खजोणीए । इत्यादि 'पडिगया परिस'त्ति लोकः स्वस्थानं गतः, प्रतिगमश्च तस्या एवं वाच्यः-'तए णं सा महइमहालिया महच्च परिसा' महाऽतिमहती आलप्रत्ययस्य स्वार्थिकत्वादतिशयातिशयगुर्वी माहत्या पर्षत्-प्रशस्ता प्रधानपरिषत्, महार्चानां वा-सत्पूजानां महाक़ वा पर्षत् महार्चपर्षदिति
'समणरस भगवओमहावीरस्सअंतिए धम्मं सोचा निसम्म हट्टतुट्ठा समणंभगवं महावीर तिक्खुत्तो आयाहिणयपयाहिणं करेइ करेत्ता वंदइ नमसइ २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org