SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ भगवतीअङ्गसूत्र १/-19/७ __ एवं वयासी-सुयक्खाएणं भंते ! निग्गंथे पावयणे, नस्थि णं अन्ने केइ समे वा माहणे वा एरिसंधम्ममाइक्खित्तए, एवं वइत्ता जामेव दिसिं पाउब्भूया तामेव दिशं पडिगय'त्ति। मू. (८) तेणं कालेणं तेणंसमएणं समणस्स भगवओमहावीरस्स जेट्टे अंतेवासी इंदभूती नाम अनगारे गोयम सगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वारिसहनारायसंघयणे कणगपुलगणिधसपम्हगोरे । उग्गतवेदित्ततवे तत्ततवे महातवे ओरालेधोरे धोरगुणे धोरतवस्सी धोरबंभचेवासी उच्छ्वाढसरीरेसखित्तविउलतेयलेसे चोद्दसपुवी चउनाणोवगए सव्वक्खरसन्निवाई समणस्स भगवओ महावीरस्स अदूरसामंते उर्खजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। वृ.तेन कालेन तेनसमयेन श्रमणस्य भगवतो महावीरस्य 'जेडे'त्तिप्रथमः 'अंतेवासित्ति शिष्यः, अनेन पदद्वयेन तस्य सकलसङ्घनायकत्वमाह - 'इंदभूइत्ति, इन्द्रभूतिरितिमातापितृकृतनामधेयः 'नाम'तिविभक्तिपरिणामानाम्नेत्यर्थः, अन्तेवासी किल विवक्षया श्रावकोऽपि स्यादित्यत आह । _ 'अनगारे'त्ति, नास्यागारं विद्यत इत्यनगारः, अयंचावगीतगोत्रोऽपि स्यादित्यत आह'गोयमसोत्तेणं'त्ति सप्तहस्तोच्छ्रयः, अयंच लक्षणहीनोऽपिस्यादित्यत आह - समचउरंससंठाणसंठिए'त्ति, समं-नाभेरुपरि अधश्च सकलपुरुषलक्षणोपेतावयवतया तुल्यंतच्च तच्चतुरनंच-प्रधानं समचतुरसम्, अथवा-समाः-शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतम्रोऽनयो यस्य तत्समचतुरनम्, अम्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवा इति, अन्ये त्वाहुःसमा-अन्यूनाधिकाःचतोऽप्यनयो यत्र यत्समचतुम्नम्, अयश्च पर्यासनोपविष्टस्य जानुनोरन्तरम्आसनस्य ललाटोपरिभागस्य चान्तरंदक्षिणस्कन्धस्य वामजानुनश्चान्तरं वामस्कन्धस्य दक्षिणजानुनश्चान्त- रमिति, अन्ये त्याहुः-विस्तारोत्सेधयोः समत्वात् समचतुरनं तच्च तत् संस्थानं च-आकारःसमचतुरसंस्थानं तेन संस्थितो-व्यवस्थितोयःसतथा, अयंचहीनसंहननोऽपि स्यादित्यतआह- 'वारिसहनारायसंघयणे'त्ति, इह संहननम्-अस्थिसञ्चयविशेषः, इह वज्रादीनां लक्षणमिदम्। ॥१॥ "रिसहोय होइ पट्टो वजं पुण कीलियं वियाणाहि । उभओ मक्कडबंधो नारायं तं वियाणाहि ।। तत्र वजंचतत्कीलिकाकीलिकाष्ठसंपुटोपमसामर्थ्ययुक्तत्वात् ऋषभश्च लोहादिमयपट्टबद्धकाष्ठसंपुटोपमसामर्थ्यान्वितत्वाद् वज्रर्षभः सचासौ नाराचंच उभयतो मर्कटबन्धनिबद्धकाष्ठसंपुटोपमसामथ्योपेतत्वाद् वज्रर्षभनाराचं (तच्च) तत् संहननम्-अस्थिसञ्चयविशेषोऽनुपमसामर्थ्ययोगाद् यस्यासौ वर्षभनाराचसंहननः, अन्ये तु कीलिकादिमत्त्वमस्थामेव वर्णयन्ति, अयं च निन्धवर्णोऽपि स्यादित्यत आह -- कणयपुलयनिहसपम्हगोरेकनकस्य-सुवर्णस्य पुलगं'तियःपुलको-लवस्तस्य योनिकषःकषपट्टके रेखालक्षणः, तथा 'पम्ह'त्तिपापक्ष्माणि केशराणितद्वद्गौरोयःस तथा, वृद्धव्याख्या तु-कनकस्य न लोहादेर्य पुलकः-सारो वर्णातिशयस्तप्रधानो यो निकषो-रेखा तस्य यत्पक्ष्मबहलत्वं तद्वद्गौरो यः स तथा, अथवा-कनकस्य यः पुलको द्रुतत्वे सति बीन्दुस्तस्य निकषो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy