________________
शतकं-१,
वर्ग:-, उद्देशक:- 9
वर्णतः सध्शो यः स तथा, 'पम्ह' त्ति पद्मं तस्य चेह प्रस्तावात्केशराणि गृह्यन्ते ततः पद्मवद्गीरो यः स तथा ततः पदद्वयस्य कर्म्मधारयः, अयं च विशिष्टचरणरहितोऽपि स्यादित्यत आह 'उग्गतवे 'त्ति, उग्रम् - अप्रधृष्यं तः - अनशनादि यस्य स उग्रतपाः, यदन्येन प्राकृतपुंसा न शक्यते चिन्तयितुमपि तद्विधेन तपसा युक्त इत्यर्थः । 'दित्ततवेत्ति, दीप्तं जाज्वल्यमानदहन इव कर्म्मवनगहनदहनसमर्थतया ज्वलितं तपो-धर्मध्यानादि यस्य स तथा ।
' तत्ततवे' त्ति, तप्तं तपो येनासौ तप्ततयाः, एवं हि तेन तत्तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूपः संतापितो यतोऽन्यस्यास्पृश्यमिव जातमिति ।
'महातवे 'त्ति आशंसादोषरहितत्वात्प्रशस्ततपाः ।
'ओराले 'त्ति भीम उग्रादिविशेषणविशिष्टतपःकरणात्पार्श्वस्थानामल्पसत्त्वानां भयानक इत्यर्थः, अन्ये त्वाहुः-‘ओराले' त्ति भीम उग्रादिविशेषण विशिष्टतपःकरणात्पार्श्वस्थानामल्पसत्त्वानां भयानक इत्यर्थः, अन्ये त्वाहु:- 'ओराले 'त्ति उदारः - प्रधानः ।
'घोरे' त्ति घोरः अतिनिर्घृणः, परीषहेन्द्रियादिरिपुगणविनाशमाश्रित्य निर्दय इत्यर्थः, अन्ये त्वात्मनिरपेक्षं घोरमाहुः, 'घोरगुणे' त्ति, घोरा - अन्यैर्दुरनुचरा गुणा-मूलगुणादयो यस्य स तथा । 'घोरतवस्सि' त्ति घोरैस्तपोभिस्तपस्वीत्यर्थः ।
'घोरबंभचेरवासि' त्ति, धोरं दारुणमल्पसत्त्वैर्दुरनुचरत्वाद्यद्बह्मचर्यं तत्र वस्तुं शीलं यस्य स तथा, 'उच्छूढसरीरे' त्ति, उच्छूढम् - उज्झितमिवोज्झितं शरीरं येन ततसंस्कारत्यागात्स तथा । 'संखित्तविउलतेयलेसे 'त्ति, संक्षिप्ता-शरीरान्तर्लीनत्वेन ह्रस्वतां गता विपुला विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात्तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथामूलटीकाकृता तु 'उच्छूढसरीरसंसित्तविउलतेयलेस' त्ति कर्म्मधारयं कृत्वा व्याख्यातमिति ।
१७
'चउदसपुव्वि’त्ति चतुर्दश पूर्वाणि विद्यन्ते यस्य तेनैव तेषां रचितत्वादसी चतुर्दशपूर्वी, अनेन तस्य श्रुतकेवलितामाह, सचावधिज्ञानादिविकलोऽपि स्यादत आह । 'चउनाणोवगए' त्ति, केवलज्ञानवर्जज्ञानचतुष्कसमन्वित इत्यर्थः, उक्तविशेषण- द्वययुक्तोऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति चतुर्दशपूर्वविदां षट्स्थानकपतितत्वेन श्रवणादित्यत आह
'सव्वक्खरसन्निवाइ' त्ति, सर्वे च तेऽक्षरसन्निपाताश्च तत्संयोगाः सर्वेषां वाऽक्षराणां सन्निपाताः सर्वाक्षरसन्निपातास्ते यस्य ज्ञेयतया सन्ति स सर्वाक्षरसन्निपाती, श्रव्याणि वा श्रवणसुखकारीणि अक्षराणि साङ्गत्येन नितरां वदितुं शीलमस्येति श्रव्याक्षरसंनिवादी, स चैवंगुणविशिष्टो भगवान् विनयराशिरिव साक्षादितिकृत्वा शिष्याचारत्वाच्च ।
52
—
Jain Education International
-
'समणस्स भगवओ महावीरस्स अदूरसामंते विहरती' ति योगः' तत्र दूरं च विप्रकृष्टं सामन्तं च संनिकृष्टं तन्निषेधाददूर सामन्तं तत्र, नातिदूरे नातिनिकट इत्यर्थः, किंविधः संस्तत्र विरहतीत्याह । 'उहुंजाणु'त्ति, उर्ध्वजानुनी यस्यासावूर्द्धजानुः शुद्धपृथिव्यासनवर्जनादीपग्रहिक निषद्याया अभावोच्चोत्कुटुकासन इत्यर्थः ।
'अहोसिरे' त्ति अधोमुखः नोर्द्ध तिर्यग्वा विक्षिप्तदृष्टि, किन्तु नियतभूभागनियमितदृष्टिरिति
For Private & Personal Use Only
www.jainelibrary.org