________________
भगवती अङ्गसूत्रं १/-/१/८
भावः । 'झाणकोट्टोवगए 'त्ति, ध्यानं धर्म्म शुक्लं वा तदेव कोष्ठः- कुशूलो ध्यानकोष्ठस्तमुपगतःतत्र प्रविष्टो धानकोष्ठोपगतः, यथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रसृतं भवति एवं स भगवान् ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरिति ।
१८
'संजमेणं'ति संवरेण 'तवस' त्ति अनशनादिना, चशब्दः समुच्चयार्थो लुप्तोऽत्र द्रष्टव्यः, संयमतपोग्रहणं चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थं, प्रधानत्वं च संयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्च पुराणकर्मनिर्जरणहेतुत्वेन, भवति चाभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच्च सकलकर्मक्षयलक्षो मोक्ष इति ।
'अप्पाणं भावेमाणे विहरइ' त्ति, आत्मानं वासयंस्तिष्ठतीत्यर्थः ॥
मू. (९) तए णं से भगवं गोयमे जायसङ्के जायसंसे जायकोउहल्ले उप्पन्नसङ्के उप्पन्नसंसए उप्पत्रको उहले संजायसङ्के संजायसंसए संजायकाउहल्ले समुप्पन्नसहे समुप्पन्नसंसए समुप्पन्नकोउहल्ले उडाए उठेइ उठाए उट्टेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपराहिणं करेइ २ त्ता वंदइ नमसइ २ त्ता नच्चासने नाइदूरे सुस्सूसमाणे नमंसमाणे अभिमुहे विणएणं पंजलिउडे पचवारा एवं वयासी
से नूणं भंते! चलमाणे चलिए १, उदीरिजमाणए उदीरिए २, वेइज्रमाणे वेइए ३, पहिज्रमाणे पहीणे ४, छिनमाणे छिन्ने ५, भिज्रमाणे भिन्ने ६, ६ड्डू माणे दड्ढे ७, मिजमाणे मए ८, निजरिमाणे निजिने ९ ? हंता गोयमा ! चलमाणे चलिए जाव निज्जरिश्रमाणे निजिण्णे ।
वृ. 'ततः' ध्यानकोष्ठोपगतविहरणानन्तरं णमिति वाक्यालङ्कारार्थ 'स' इति प्रस्तुतपरामर्शार्थः, तस्य तु सामान्योक्तस्य विशेषावधारणार्थमाह- 'भगवं गांयमेत्ति, किमित्याह
'जायसङ्के' इत्यादि, जात श्रद्धादिविशेषणः सन् उत्तिष्ठतीति योगः, तत्र जाता-प्रवृत्ता श्रद्धाइच्छ वक्ष्यमाणार्थतत्त्वज्ञानं प्रति यस्यासौ जातश्रद्धः, तथा जातः संशयो यस्य स जातसंशयः, संशयस्तु अनवधारितार्थः ज्ञानं, स चैवं तस्य भगवतो जातः भगवता हि महावीरेण 'चलमाणे चलिए' इत्यादी सूत्रे चलन्नर्थश्चलितो निर्द्दिष्टः, तत्र च य एव चलन् स एव चलित इक्तः, ततश्चैकार्थविषयावेतौ निर्देशी, चलन्निति च वर्त्तमानकालविषयः चलित इति चातीतकालविषयः, अतोऽत्र संशयः कथं नाम य एवार्थो वर्त्तमानः स एवातीतो भवति ?, दिरुद्धत्वादनयोः कालयोरिति, तथा ।
'जायकोउहल्ले' त्ति, जातं कुतूहलं यस्य स जातकुतूहलो, जातौत्सुक्य इत्यर्थः, कथमेतान् पदार्थान् भगवान् प्रज्ञापयिष्यतीति, तथा 'उप्पन्नसङ्के' त्ति उत्पन्ना- प्रागभूता सती भूता श्रद्धा यस्य स उत्पन्नश्रद्धः, अथ जातश्रद्ध इत्येतावदेवास्तु किमर्थमुत्पन्न श्रद्ध इत्यभिधीयते ?, प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य उत्पन्नश्रद्ध इति, हेतुत्वप्रदर्शनं चोचितमेव, काव्यालङ्कारत्वात्तस्य, यथाहुः"प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरीम् " इह यद्यपि प्रवृत्तदीपत्वादेवाप्रवृत्तभास्करत्वभगवतं तथाऽप्यप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमिति ।
'उप्पन्नसंसए उप्पन्नको उहल्ले' ति प्राग्वत्, तथा 'संजायसड्डे' इत्यादि पदषट्कं प्राग्वत् । नवरमिह संशब्दः प्रकर्षादिवचनो, यथा 'संजातकामो बलभिद्विभूत्यां, मानात् प्रजाभिः प्रतिमाननाच्च ।” (संजातकाम:-) एन्द्रैश्वर्ये प्रकर्षेण जातेच्छः कार्त्तवीर्य इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org