Book Title: Agam Sutra Satik 05 Bhagavati AngSutra 05
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 15
________________ १२ भगवतीअङ्गसूत्रं १/-19/६ लोगुत्तमे लोगनाहे लोगप्पदीवे लोगपञ्जोयगरे अभयदए चक्खुदए मग्गदए सरणदए धम्मदेसए धम्मसारहीए धम्मवरचाउरंतचक्कवट्टी अप्पडिहयवरनाणदसणधरे वियट्ठछउमे जिणे जाणए बुद्धे बोहए मुत्ते मोयए सळ्नू सव्वदरिसी सिवमयलमरुयमनंतमक्खयमव्वाबाहमपुनरावतयं सिद्धिगइनामधेयं ठाणं संपाविउकामे जाव समोसरणं । वृ. 'समणे'त्ति श्रमु तपसि खेदे चेति वचनात् श्राम्यति-तपस्यतीति श्रमणः, अथवा सह शोभनेनमनसावर्तत इति समनाः,शोभनत्वं च मनसो व्याख्यातं स्तवप्रस्तावात्, मनोमात्रसत्त्वस्यास्तवत्वात्, संगतंवा-यथा भवत्येवमणतिभाषतेसमोवा सर्वभूतेषु सन् अणति-अनेकार्थत्वाद्धातूनां प्रवर्तत इति समणो निरुक्तिवशाद् भवति, 'भगवति भगवान्-एश्वर्यादियुक्तः पूज्य इत्यर्थः । 'महावीरे'त्ति वीरः ‘सूर वीर विक्रान्तावि तिवचनात् रिपुनिराकरणतो विक्रान्तः, सचचक्रवत्यादिरपिस्यादतो विशेष्यते-महांश्चासौदुर्जयान्तररिपुतिरस्करणाद्वीरश्चेतिमहावीरः, एतच्च देवैर्भगवतो गौणं नाम कृतं, यदाह-“अयमे भयभेरवाणं खंतिखमे परिसहोवसग्गाणं । देवेहिं (से नाम) कए (समणे भगव) महावीरेत्ति,"। 'आदिकरे'त्तिआदौ-प्रथमतः श्रुतधर्मम्-आचारादिग्रन्थात्मकं करोति-तदर्थप्रणायकत्वेन प्रणयतीत्येवंशील आदिकरः, आदिकरत्वाञ्चसौ किंविधइत्याह-तित्ययरे'त्तितरन्ति तेन संसारसागरमिति तीर्थ-प्रवचनं तदव्यतिरेकाचेह सङ्घस्तीर्थ तत्करणशीलत्वात्तीर्थकरः, तीर्थकरत्वं चास्य नान्योपदेशपूर्वकमित्यत आह सहसंबुद्धे त्ति, सह-आत्मनैव सार्द्धमनन्योपदेशतइत्यर्थः, सम्यग-यथाववुद्धो-हेयोपादेयोपेक्षणीयवस्तुत्वं विदितवानितिसहसंबुद्धः । सहसंबुद्धत्वंचास्यन प्राकृतस्य सतः, पुरुषोत्तमवादित्यत आह । 'पुरिसोत्तमो'त्ति, पुरुषाणां मध्येतेन तेनरूपादिनाऽतिशयेनोद्गतत्वादूर्ध्ववतित्वादुत्तमः पुरुषोत्तमः, अथ पुरुषोत्तमत्वमेवास्य सिंहाद्युपमानत्रयेण समर्थयत्राह - 'पुरिससीहे'त्ति, सिहंइव सिंहः पुरुषश्चासौसिंहश्चेतिपुरुषसिंहः, लोकेन हि सिंहे शोर्यमतिप्रकृष्टमभ्युपगतमतः शौर्ये स उपमानं कृतः, शौर्यं तु भगवतो बाल्ये प्रत्यनीकदेवेन भाग्यमानस्याप्यभीतत्वात् कुलिशकठिनमुष्टिप्रहारप्रहतिप्रवर्द्धमानारशरीरकुब्जताकरणाच्चेति, तथा 'पुरिसवरपुंडरीए'त्ति, वरुपुण्डरीकं-प्रधानधवलसहपत्रं पुरुष एव वरपुण्डरीकमिवेति पुरुषवरपुण्डरीकं, धवलत्वं चास्य भगवतः सर्वाशुभमलीमसरहितत्वात् सर्वेश्च शुभानुभावैः शुद्धत्वात्, अथवा पुरुषाणां-तत्सेवकजीवानां वरपुण्डरीकमिव-वरच्छत्रमिवयःसन्तापातपनिवारणसमर्थत्वात् भूषाकारणत्वाच्च स पुरुषवरपुण्डरीकमिति, तथा - _ 'पुरिसवरगंधहस्थित्ति पुरुष एव वरगन्धहस्ती पुरुवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनापि समस्तेतरहस्तिनो भज्यन्ते तथा भगवतस्तद्देशविहरणेन ईतिपरचक्रदुर्भिक्षडमरमरकादीनिदुरितानि नश्यन्तीति पुरुषवरगन्धहस्तीत्युच्यत इत्यत उपमात्रयात्पुरुषोत्तमोऽसौ । न चायं पुरुषोत्तम एव, किन्तु?, लोकस्याप्युत्तमो, 'लोकनाथत्वाद्', एतदेवाह 'लोगनाहेत्ति, लोकस्य-सज्ज्ञिभव्यलोकस्य नाथः-प्रभुर्लोकनाथः, नाथत्वं च योगक्षेमकारित्वं, योगक्षेमकृन्नाथ' इति वचनात्, तच्चास्याप्राप्तस्य सम्यग्दर्शनादेर्योगकरणेन लब्धस्य च परिपालनेनेति, लोकनाथत्वं च यथाऽवस्थितसमस्तवस्तुस्तोमप्रदीपनादेवेत्यत आह - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 1096